________________
प्रेमयोगः ] मां विना विश्वजीवानां, तारको नैव विद्यते । शरण्यं मां समाश्रित्य, यान्ति शीघ्रं परं पदम् ॥ २८७ विश्वाधारतया ये मां, ज्ञात्वा मच्छरणाश्रिताः । कालस्याऽपि महाकाला, भवन्ति सिद्धरुपिणः ॥ २८८ मनोवाकाययोगानां, मयि कृत्वाऽर्पणं सदा । सर्वकर्माणि कुर्वन्तो, जनाः संयान्ति मत्पदम् ॥ २८९ अस्तित्वे नैव हर्षोऽस्ति, देहादीनां स्वभावतः । तन्नाशे नैव शोकोऽस्ति, यस्य स मत्स्वरुपकः ॥ २९० मत्स्वरुपविलीनानां, सुत्सु शुद्धस्वरुपतः । ब्यक्तो भवामि भावेन, शोध्योऽहं हदि मजनैः ॥ २९१ मयि स्वनामरूपाणां, लीनतां कुर्वतां हृदि । भवामि सर्वथा व्यक्तस्तदात्म शुद्धरूपतः ॥ २९२ सर्वजीवेषु मां पश्यन्सर्वजीवहिते रतः । यः कोऽपि तेन लभ्योऽहं, शुद्धात्मा सर्वशक्तिमान् ॥ २९३ मयि रागो भवेत्पूर्णः, सर्वात्मैक्यविलोकिनाम् । मद्रागादन्यभावेषु, रागो नैव भवेत्कदा ॥ सर्वेषु देशकालेषु, सर्वभाषासु वस्तुतः । अनन्तानि मदीयानि, नामरूपाणि जानताम् ॥ २९५ अतो विश्वजनैः सर्वैः, प्राप्योऽहं साम्ययोगतः । साम्येन सर्वलोकानां, मुक्तिदोऽहं सुनिश्चितम् ॥ २९६ अतः साम्यं समालम्ब्य, प्रेमभक्तिप्रचारकैः । महावीरेति मन्नाम्ना, ध्यातव्योऽहं विशेषतः॥ २९७ धर्मयोगैरसंख्यातः, सर्वत्र साम्यदृष्टितः । प्राप्योऽहन्सिद्ध बुद्धोऽहं, मद्रागिसर्वमानवैः ॥ २९८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org