________________
-
[ द्वितीयाध्याये. भोगानां भोग्यवस्तूनां, सन्त्यज्य ममतां जनाः। जीवन्ति ये मयि प्रीत्या, तेषां शान्ति ददाम्यहम् ॥ २७५ मद्भक्ता देहभावेन, जीवन्ति न कदाचन । आत्मभावेन जीवन्ति, सत्पीत्या देहवर्तिनः॥ २७६ सन्त्यज्य वित्तदेहादेममत्वं भक्तिकारकाः। वासनासु न मुह्यन्ति, मत्सेमाऽवृतमोगिनः ॥ पूर्णाऽनन्दमयं ब्रह्म, निश्चित्य स्वं तथाविदः । पूर्ण सर्वत्र पश्यन्तः, पूर्णात्पूर्णा सवन्ति ते ॥ २७८ भक्तियोगमयं ज्ञात्वा, पत्तद्धावं विहाय ये । भक्ति कुर्वन्ति मद्रूपा, भवन्ति ते मतं मम ॥ ज्ञानवित्तादिदानेन, भक्तिर्भवति निर्मला। सर्वत्र सर्व जीवाना-मात्मवच्च निरीक्षणात् ॥ २८० सर्वदेवास्तथा देव्यो, देवेन्द्राश्चक्रवर्तिनः । दिक्पाला वासुदेवाश्च, सबै मां यान्ति भक्तितः ॥ २८१ असंख्यसूर्यचन्द्राधा, भुवाद्याः सर्वतारकाः । महावीरं परब्रह्म मां, प्रति यान्ति भक्तितः॥ २८२ सर्वदेवनमस्कारो, मां वीरं प्रतिगच्छति । मद्धर्म प्रतिगच्छन्ति, सर्वधर्माः स्वभावतः ॥ सर्वदेवोपरि प्रीतित्पीति प्रतिगच्छति । मदाराधनमध्ये तु, सर्वाऽऽराधनमागतम् ॥
२८४ जैनेन्द्रं मां महावीर, विज्ञाय पूर्गरागतः । मत्परो मन्मनो भक्का, सिद्धिं गच्छति शाश्वतीम् ॥ २८५ सूक्ष्माऽतिसूक्ष्म-वस्तूनां, शोधका बाह्यपण्डिताः । मद्रुपं जानते नैव, मच्छ्रद्धाभक्तिमन्तरा ॥
२८६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org