________________
प्रेमयोगःj हृदि मत्प्रेमरूपेण, परात्मा दृश्यते विभुः। अतः सर्वप्रयत्नेन, मां भजध्वं दिवानिशम् ॥ साहाय्यं सर्वभक्तानां, पूर्णभक्त्या करोम्यहम् । विपत्तौ च परोक्षेण, भक्तानक्षामि शक्तितः ॥ दर्शनातुरभक्तेभ्यः स्वप्नादौ दर्शनं शुभम् । ददाम्यनेकरूपेण, सर्ववाञ्छित्तदायकम् ॥ निराकारस्वरूपं मां, ज्योतीरूपं सनातनम् । गुरुप्रेमणि संस्नाताः, पूर्ण पश्यन्ति योगिनः ॥ मद्भक्तिशक्तितः सन्तोऽताऽऽनन्दस्य भागिनः । बालका इव निर्दोषा, भवन्ति तीर्थरूपिणः ॥ गुरुप्रेमविहीनास्तु, पश्यन्ति न कदाऽपि माम् । सदगुरुप्रेमभक्तानां, ददामि दर्शनं शुभम् ॥ २६८ गुरोविचाराऽऽचारेषु, नास्तिकाः प्रभवन्ति ये। मद्रूपं ते न पश्यन्ति, ज्ञानाऽभ्यासरता अपि ॥ २६९ गुरुरूपं च मद्रूपमेकं पश्यन्ति ये जनाः । फलन्ति सर्वसद्योगास्तेषां सर्वात्मदर्शिनाम् ॥
२७० मन्मूत्ती विश्वरूपे च, सद्रूपं विधाय ये। गृहणन्ति सदगुणान्मीत्या, त्यजन्ति सर्वदुर्गुणान् ॥ २७१ भक्तास्ते मे महासत्वाः, सत्यतत्त्वाऽवलोकिनः। धर्मार्थ प्राणदातारो, देहमन्दिवासिनः॥ विद्याशक्तिधना धैर्य, परस्परसहायकाः। सन्ति ते मजना जैना, मस्पदं यान्ति सत्वरम् ॥ २७३ देहमन्दिरदेवास्ते, मदेवत्व-विधायिनः । संसारे सर्वकार्याणि, कुर्वन्तोऽपि न तन्मयाः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org