________________
[द्वितीयाध्याये परोपकारकर्तारः, सत्यदानदयालवः । मद्भक्ता मत्पदं यान्ति, समुत्तीर्य भवोदधिम् ॥ २५१ सर्वकर्माणि कुर्वन्तो, जीवहिंसां न कुर्वते । मछल्लभाजनास्ते स्युरार्याऽऽनार्यनरादयः ॥ २५२ गुरूं संसेव्य सम्यक्त्वसंस्करो यो जनो भवेत् । मद्धर्मज्ञः स मन्तव्य-स्तदाधारोऽहमिष्टदः ॥ २५३ मद भक्तानां हृदि व्यक्तं, साहाय्यं मम भक्तितः। सर्वथा निर्मलीभूय, प्रान्ते यान्ति परं पदम् ॥ परब्रह्म महावीरः, शुद्धात्माऽहं सुखालयः । निष्कामो यो भजेन्मां, स मयि विश्राममाप्नुयात् ॥ २५५ आत्मनः परमात्मत्वं, यः प्रादुर्भावयेजनः । मत्साम्यं सर्वजीवेषु, वीक्षमाणः शिवं ब्रजेत् ॥ २५६ एकेन्द्रियादि सर्वेषां, कुर्वन् रक्षां यथाविधि । दीनादीनुद्ध(श्चैव, क्लेशान्सर्वाहिनस्ति सः । २५७ दुःखाद्यापत्तिकालेषु, धारयन्तो न दीनताम् । स्मरन्तो माश्च ते नित्यं, लभन्तेऽन्तेऽव्ययं सुखम् २५८ परिषहोपसर्गेभ्यो, भवन्ति निश्चलाऽभयाः । महोधि मन्यमानास्ते, भक्ता मे सर्वतोऽधिकाः ॥ २५९ कल्याणकादिपर्वाणि, संप्राप्योत्सवकारिगः। मां परिगृस्य मतुल्या, भवन्ति परमेष्ठिनः ॥ मनोवाकायतः कार्य, कृतं कारितमन्वहम् । तत्सर्वस्य मयि त्यागान्महाभक्तोऽभिधीयते ॥ २६१ सर्वजातीयतीर्थानां सम्यग्यात्राविधायिनः । आत्मोन्नतिं प्रकुर्वन्ति, मद्भक्ता विश्वशान्तिदाः ॥ २६२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org