________________
प्रेमयोगः ]
न्याय्यस्वार्थोपयोगस्य, कर्मभिर्मम पूजकाः । मयि चित्तप्रदातारः, शुभेच्छायोगिनोऽपि मे ॥ धर्मिणो मम ये भक्तास्तत्र प्रेमविधायिनाम् । सर्वव्रतानि वेदाच, तेषां चेतसि संस्थिताः ॥ मच्छ्रद्धाभक्तियोगेषु सर्ववेदागमाः स्थिताः । परमब्रह्म मां वेत्ति, महाभक्तः स उच्यते ॥ यावत्स्थरा मयि श्रद्धा, तावन्मोहो न संभवेत् । मत्स्वरूपे निराकारे, लीनस्य नैव दोषता ॥ घातका अपि मद्भक्ता, जायन्ते सद्दयालवः । मामेव सर्वजीवेषु संभाव्य मत्पदाश्रिताः ॥ ममाऽविनाशिनो भक्तान्कालपीडा न बाधते । सदा प्रकाशिनस्ते स्युः, सर्वेषां चित्तवल्लभाः ॥ निर्जराऽमरमत्तुल्या, नैव ते यान्ति दुर्गतिम् । सर्वदा मयि संलीना, भवन्ति निर्मलान्तराः ॥ रक्षायै धर्मिणां भक्ताः, सर्वस्वार्पणकारिणः । मृत्वा स्वर्ग जना यान्ति, पूर्णमुक्तिश्च शाश्वतीम् ॥ २४६ मोहादिकाऽसुरान्सर्वान्, जेतारः सन्ति मज्जनाः । बाह्यव्रतादिकेष्वेव, नैकान्तेन विगाहिनः ॥ मदन्यनियमा ये स्युस्तेषु नैव विमुह्यति ।
यस्य चेतसि भक्ला मे, वासस्तत्र न दुष्टता ॥ साधयन्सर्वकार्याणि मयि कुर्वन्स्थिरं मनः । सर्वस्वाऽर्पणकर्त्ता यो महाभक्तः स मे मतः ॥ कदापि दुर्गति दुष्टो, बाधते यं न चाऽपरः । मद्रपो मां भजन, सेवाऽहं नात्र संशयः ॥
Jain Education International
9
For Private & Personal Use Only
२९
२३९
२४०
२४१
२४२
२४३
२४४
२४५
२४७
२४८
२४९
२५०
www.jainelibrary.org