________________
.२८
[ द्वितीयाध्याये ऋषभाधेस्त्रीर्थकृद्भिनिदिष्टोऽहं जिनेश्वरः । चतुर्विधमहासंघः स्थापितो धर्मवाहकः ॥ २२७ पितरौ सेवमानोऽसौ, कुर्वन्सर्व सहायताम् । मद्भक्त एव सर्वत्र, मुक्तिं प्राप्य विराजते ॥ २२८ पत्नी प्रेमा पति यंत्र, भामिनी पतिरागिणी । बालरक्षाकरा लोकाः, शोभन्ते मम सेवकाः ॥ २२९ अपांसुलास्त्रियो यत्र, तत्र मच्छक्तिसंस्थितिः । भक्ता गायन्ति मां यत्र, तत्र मद्भावना सुखम् ॥ २३० सत्प्रीला स्वामिनं यत्र, सेवन्ते मन्जनाः सदा । तत्र शान्तिर्भवेनिलं, सच्छक्तिश्च प्रकाशते ।। २३१ मजना धर्मिणो यत्र, द्रुह्यन्ति न परस्परम् । संभजन्तो लभन्ते मा-मेव नाऽस्लत्र संशयः ॥ २३२ गच्छन्ति दुर्गति नैव, मदभक्ताः परमार्थिनः । अन्तला निरासक्ताः, शुभासक्ताश्च मानवाः॥ २३३ दुष्टमोहो हदि प्रादुर्भवन् दुर्बुद्धिमावहेत् । मां भजन्नाशयेत्तं यस्तस्यात्माशुद्धिमान्भवेत् ॥ २३४ दुष्टपक्षं परित्यज्य, भवन्तु धर्मपक्षिणः । सर्वत्र हृदि मां स्मृत्वा, विहरध्वं निजेच्छया ॥ २३० मोहिनो नैव जानन्ति, मविभूतिमनन्तराः। मद्रसज्ञा महाभक्ताः साधवो मां विजानते ॥ २३६ दया विवेकिनः सन्तः सदगुरौ पूर्णरागिणः । भवन्ति नैव अद्भिन्ना, मन्मया धर्मधारकाः ॥ २३७ परार्थस्वार्थसत्कर्ममद्भक्तिलीनचेतसः। ब्रजन्ति मत्पदं भव्या, मदभिन्नधियः सदा॥ २३८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org