________________
२१७
प्रेमयोगः भवन्ति ते निराकाराः, सिद्धा बुद्धा निरञ्जनाः ।। अतः साकारसेवातो, निराकारत्वमात्मनः ॥ अर्हन्सूरिमुनीशाद्याः, साकाराः परमेष्ठिनः। परोपकारकर्माये-भवन्ति परमार्थिनः ॥ २१६ सेवाभक्त्या सदोपास्याः, साकाराः परमेश्वराः । जीवन्तः सर्वसाकारा, आराध्या आत्मशुद्धये ॥ मद्ध्यातारो विमुच्यन्ते, भक्ता घोरविपत्तितः । यादशं तादशं कर्म, मदर्पितं सुखावहम् ॥ २१८ मत्स्मृतिपूर्वकं सर्व, निर्विघ्नं कर्म जायते। चिह्नानि कार्यसिद्धीनां, प्रेमोत्साहौ च मत्स्मृतिः॥ २१९ भवेदुद्योगिनी घुद्धि-मविश्वासविधायिनाम् । सर्वथोद्योगतः सिद्धि-रन्यथाऽसिद्धतामता ॥ सर्वदं हृदि मां धृत्वा, यद्यत्करोति मजनः । तत्तद्भावेन तस्याऽहं, वाञ्छितार्थप्रदायकः ॥ यद्भूतं यद्भवत्येव, यद्भविष्यति तत्र यः । साक्षीभूतस्वभावेन, वर्त्तते सैव मज्जनः । २२२ संपत्तौ च विपत्ती ये, वतन्ते साम्यभावतः । ज्ञानानन्दादि धर्माणामाविर्भावस्तदात्मसु । मयि ज्ञाते जगदज्ञातं, प्रभावोऽनन्तरूपकः । मदात्मैकप्रदेशेऽपि, सर्व विश्वं प्रमीयते ॥ अनन्तज्ञानमाहात्म्यं, केनापि नैव लक्ष्यते। पूर्णः पूर्ण विजानाति, पूर्णात्पूर्ण प्रकाश्यते ॥ सर्वज्ञोऽहं महावीरो, जगदुद्धारकारकः । अधर्माणां विनाशाय, जातोऽन्तिमजिनेश्वरः ॥ २२६
२२०
२२३
२२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org