SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ २६ 7 मदभिन्ना नया धर्माः सर्वधर्मैर भेदवान् । इति विज्ञाय सेवन्ते, भक्ता मद्रूपदर्शिनः ॥ मयि जिनेश्वरे धर्मास्तिर आविःस्वभावकाः । उद्यन्ते विलीयन्ते, जानन्ति ज्ञानयोगिनः ॥ अनन्तं ब्रह्मरूपं मे, लक्ष्यते लेशमात्रकम् । 'मत्तो वाचो निवर्त्तन्ते, ब्रह्मसर्वज्ञगोचरम् ॥ मत्प्रतीतिर्भवेत्प्रेम्णा, किं वदामि पुनः पुनः । भजध्वं प्रथमं प्रीला, सद्गुरुं मत्प्रदर्शकम् ॥ प्राप्योऽहं न कदा केषां सदगुरो भक्तिमन्तरा । गुरोः श्रद्धावतां नृणां प्राप्योऽहं पूर्णरागतः ॥ मन्मूर्तिपूजका भक्ताः, पत्रपुष्पफलादिभिः । मगतिं संश्रिताः पूर्णब्रह्म संयान्ति सत्वरम् ॥ विशुद्धप्रेमणि ब्रह्म-भावं सन्मान्य भक्तराट् । परानन्द-पदं प्राप्य, कृतकृत्यो भवेत्स्वयम् ॥ सेव्यसेवकभावेन, पर्युपास्ते परं प्रभुम् । आत्मशुद्धिं परां कृत्वा, स परेशो भवेत्स्वतः ॥ यत्र तत्र प्रभोर्नाम्नो, जापस्मरणमात्रतः । भवेद्भक्तिर्दिवा रात्रौ हृदि मत्प्रेमधारिणाम् ॥ अनन्ताऽनन्त तेजोन्धिः, परब्रह्म निरञ्जनम् । मत्स्वरूपं निराकारं ज्ञानिभिरनुभूयते ॥ निराकारस्वरूपाग्रे, मत्साकारस्वरूपता । विज्ञेया बिन्दुन्मुक्तिनिःश्रेणिर्भव्यदेहिनाम् ॥ - साकारं मां समालम्ब्य, साकाराः परमेष्ठिनः । भूत्वा जना निराकार - रूपं ध्यात्वा समाधिना ॥ Jain Education International [ द्वितीयाध्याये For Private & Personal Use Only २०३ २०४ २०५ २०६ २०७ २०८ २०९ २१० २११ २१२ २१३ २१४ www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy