________________
प्रेमयोगः ] महादुःखप्रसंगास्तु, मद्भक्तानां महोत्सवाः । जायन्ते कर्मनाशार्थ-मात्मशुद्धि-प्रकाशकाः॥ १९१ भक्तानां भक्तियज्ञोऽहं, कर्मयज्ञः सुकर्मणाम् । ज्ञानिनां ज्ञानयज्ञोऽहं, प्रेमयज्ञोऽस्मि देहिनाम् ॥ १९२ सिद्धाः सिद्धयन्ति सेत्स्यन्ति, पापवन्तोऽपि मन्जना। ध्यानान्मन्मयतां प्राप्ता, मदनेकाऽवलम्बनैः ॥ १९३ सिद्धाः सिद्धयन्ति सेत्स्यन्ति, ब्रह्मा-विष्णुरादयः।. मद्भक्त्या सन्मया रामा, ग्रहा मद्भक्ता नारदाः॥ १९४ उद्योगिनश्च मद्भक्ताः स्वायिणो विवेकिनः । सर्वजातीयशक्तीनां, प्रकाशार्थ प्रवर्तकाः॥ १९५ उद्योगपूर्वकास्तेऽपि, रागतो मामुपासते । एकोऽप्यनन्तरूपोऽस्मि, मदसंख्येयनामभिः॥ गुप्ताऽगुप्ताद्यसंख्येयैः, सर्वभाषाविशेषकैः । अनन्तै मभिश्चैको, वीरोऽस्मि विश्वतारकः ॥ उपास्यः सर्वदुःखानां, मुक्त्यर्थ नीतिसेवकैः । मद्रूपासक्तभक्तानां, जातिधर्मा मदात्मकाः॥ मत्स्वरूपादनन्यानां, सर्व मद्धर्भरूपकम् । जायते नैव भेदोऽस्ति, देहभेदास्तु कल्पिताः ॥ १९९ रोगापत्तिविपत्तिभ्यो, भक्तानां ज्ञानपक्वता । जायन्तेऽनुभवाः सर्वे, ज्ञानोत्क्रान्ति विधायकाः ॥ २०० सुख-दुःखप्रसङ्गेशु, मुह्यन्ति नैव मन्जनाः। अनुकूलाः क्रियन्ते ते, आत्मशुद्धिप्रकाशकाः ॥ २०१ सर्वयागैरहं प्राप्या, सर्वयागास्तु मे प्रियाः॥ मियत्वं सर्वभक्तेषु, मत्त्वं तेषु सदामतम् ॥
२०२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org