________________
[द्वितीयाध्याय सर्वदेवस्वरूपं मां, ज्ञात्वा यो मदुपासकः। देवभ्रष्टो भवेन्नैव, मद्भक्तः सोऽभिधीयते ।। सर्वब्रह्ममयं ज्ञात्वा, यो मां वीरं भजेत्सदा । परब्रह्म भवत्पूर्णः, स मद्भक्तोऽभिधीयते ॥ १८० सर्ववेदस्वरूपं मां, ज्ञात्वा ये समुपासते । मद्भक्तास्ते महोत्कृष्टा, मुक्ति संयान्ति शाश्वतीम् ॥१८१ वेदागमा असंख्याता, व्यक्ताऽव्यक्ताः सनातनाः । मत्तः केचित्प्रकाशन्ते, सत्यधर्मप्रचारकाः ॥ १८२ विज्ञाय मां महासत्त्वा, मद्भक्ति प्राप्नुवन्ति ये । परिपूर्णगुणान्प्राप्य, परिपूर्णा भवन्ति ते ॥ १८३ भक्तियोगस्य सद्भेदा, असंख्याता निवेदिताः । एक पूर्ण समाराध्य, मुक्तो भवति निश्चयी ॥ १८४ जानन्तोऽपि न सर्वज्ञाः, सर्वथा वक्तुमीश्वराः। भक्ति समाश्रिता भक्ता, मुच्यन्ते कर्मबन्धनात् ॥ १८५ ध्यायन्तो द्वेषभावेन, वस्तुतः शत्रवोऽपि माम् । मद्धयानस्य बलेनैव, प्रान्ते संयान्ति मत्पदम् ॥ १८६ शत्रुभावेन दुष्टा ये, प्रान्ते मद्भत्तिमाश्रिताः । मच्चित्ता ध्येयरूपास्ते, भवन्ति सिद्धयोगिनः॥ १८७ नास्तिका बुद्धिमन्तोऽपि, शक्तिमन्तो न मे प्रियाः। चाण्डाला निर्धना भक्ताः, सर्वथा मे बहुप्रियाः ॥ १८८ न धनेषु न राज्येषु, प्रियताऽस्ति कदापि मे । भक्तिभावः प्रियः पूर्णो, भक्तानां सिद्धिदायकः॥ १८९ शुभार्थं जायते सर्व, भक्तानां मतिरीदृशी। अतस्ते नैव मुह्यन्ति, भक्ता आत्मोन्नतिक्षमाः ॥ १९०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org