SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ - प्रेमयोगः मद्रसास्वादतो नृणां, बाह्यासंक्तिविनश्यति। प्रारब्ध-कर्म-भोगेषु, वतिनोऽपि न वर्तिनः॥ १ शुद्धानन्दरसास्वादो, ज्ञान-वैराग्यभक्तितः । क्रियते मजनैः पूर्णो, वासनाया विनाशकः ॥ १६८ इन्द्रियाणां विनाशेऽपि, नैवाऽऽसक्तिविनश्यति । विषयाणां तथा नाशे, निरासक्तिन जायते ॥ १६९ निरासक्तिर्भवेन्नृणां, पूर्णमद्रागयोगतः। आसक्तिः कर्मबन्धाय, निरासक्तिर्विमुक्तये ॥ १७० ये बाह्येषु निरासक्ता, वर्त्तन्ते मजनाः सदा । आन्तरास्त्यागिनो बोध्या, बाह्यतो भोगिनोऽपि ते ॥१७१ कृपाऽपराधिषु व्यक्ता, प्रीतिर्वैरिषु निश्चला । मद्भक्तः सात्त्विकश्रेष्ठो, व्यक्त्यहंकारनिर्गतः ॥ १७२ विस्मृत्य नामरूपादि-भावान्मल्लीनवृत्तिकः। सर्वकर्म प्रकुर्वाणो, मत्पदं याति निश्चलम् ॥ १७३ नामरूपादिभावेषु, स्वकेषु मत्स्वरूपताम् । भावयन्पूर्णरागेण, भक्तो याति परं पदम् ॥ सुख-दुःखादिसंयोगा, मनोवाकायधारिणाम् । भवन्त्येवात्मशुद्धयर्थ, मद्विश्वास-विधायिनाम् । सर्वधर्मा मयि व्यक्ताः , सदाऽहं सर्वधर्मवान् । सर्वधर्मस्थितं मान्तु, जानन्ति भक्तियोगिनः । १७६ सर्वधर्मस्वरूपं मां, ज्ञात्वा यो धर्ममाचरेत् । धर्मभ्रष्टो भवेन्नैव, सैव भक्तोऽभिधीयते ॥ १७७ सर्वगुरुस्वरूपं मां, ज्ञात्वा गुरुमुपासते। गुरुभ्रष्टा भवेयुर्नाऽभिधीयन्ते च मामकाः॥ १७८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy