________________
[द्वितीयाध्याय वीर-वीरेति मज्जापः, कोटिहत्यादिनाशकः । धर्मबुद्धि-प्रदो मंक्षु, कर्तव्यः प्रेमयोगिभिः ॥ १५५ भोगार्थी लभते भोगान् , पुत्रार्थी लभतेऽङ्गजम् । विद्यार्थी लभते विद्या, वित्तार्थी लभते धनम् ।। १५६ धर्मार्थी लभते धर्म, भार्यार्थी लभते स्त्रियम् । इच्छापूर्णकरी भक्तिर्मम चिन्तामणीयते ॥ १५७ मद्धीनाश्चमत्काराः, सर्वे ते मे विभूतयः । विभुः सर्वविभूतीनां, प्रेम्णा ध्यानी लभेत माम् ॥ १५८ देहप्राणादिभिर्यो मामतिप्रियं स्वभावतः । जानाति पूर्ण सत्प्रीत्या, तस्य स्वर्गमयं मनः॥ सर्वप्रियपदार्थेषु, स्वात्माऽहं वस्तुतः प्रियः । मयि प्रीतिविधानेन, कामादीनां क्षयो भवेत् ॥ १६० मन्मयो मन्मयीं वृत्ति, कृत्वा कर्माणि सेवते। अन्तर्ब्रह्म बहिर्ब्रह्म, प्रेम्णा पश्यति भक्तिमान् ॥ १६१ बहिरन्तः सदापूर्ण, पूर्णानन्द-स्वरूपिणम् । पूर्णप्रियं परप्रीत्या, जानाति पूर्णवान् स्वयम् ॥ १६२ प्रेमवॉल्लभते श्रद्धां, श्रद्धावान ज्ञानमश्नुते । ज्ञानी मद्रूपतां प्राप्तः, सिद्धात्मा भवति स्वयम् ॥ १६३ कृत्वा ये स्वाऽर्पणं भव्या, मयि लीनाः स्वभावतः । विषयाब्धौ न मज्जन्ति, विषयेषु प्रवर्तिनः ॥ विषयेषु निरासक्ता, आसक्ते मयि धारकाः। परं रसं समासाद्य, भवन्ति मत्स्वरूपिणः ॥ १६५ बाह्या रसा निवर्तन्ते, देहिनो मयि रागतः । रसेन्द्रं मां समाश्रित्य, भवन्ति निर्विषा भवे ॥ १६६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org