________________
-
-
प्रेमयोगः] मद्भक्तानां द्विषो ये ते, राक्षसा घोरपापिनः । गच्छन्ति दुर्गतिं घोरां, पापबुद्धिहत्ताशयाः ॥ माद्धर्मद्वेषिणो नीचा, लभन्ते नैव सन्मतिम् । रक्षार्थ मम भक्तानां, यत्र तत्रास्मि भक्तितः ॥ १४४ ददामि सत्फलं तेभ्यो, मद्भक्तानर्चयन्ति ये । धर्म-संरक्षणार्थाय, व्यक्तोऽहं नात्र संशयः॥ १४५ धर्माऽवताररूपा ये, महाशक्तिसमन्विताः । महान्तो योगिनो भक्ता, मद्रपा जानतां जनाः ॥ १४६ महाऽवतारिणः सन्त-स्तत्तत्काले विशेषतः । मद्धर्मोद्धारकाः शक्ता, जायन्ते मत्स्वरूपिणः ॥ १४७ एकश्चाऽनेक-रूपोऽहं, सर्वशक्तिमयः सदा । समष्टि-व्यष्टिरूपं मां, पश्यन्ति ब्रह्मचक्षुषः॥ १४८ देहिषु शक्तयो या या-स्तास्ता मे सार्वकालिकाः । सर्वशक्तिषु पश्यन्तो, भजध्वं सर्वदेव माम् ॥ धारयध्वं स्वरूपे मे, प्रेमभक्ति सनातनाम् । कलौ भवन्ति निर्मोहा, मत्प्रेमाश्रितसज्जनाः॥ धर्मिणां प्राणरक्षणार्थ-मात्मप्राण-समर्पकाः। क्षत्रिया धर्म्ययुद्धेषु, मृत्वा-जित्वा च मन्मयाः ॥ १५१ मयि विश्वासिनां शुद्ध-प्रेमबुद्धि प्रदायकः । तद् हत्तु व्यक्तरूपोऽहं, शुद्धब्रह्म स्वभावतः ॥ १५२ बुद्धिप्रेरक-बुद्धोऽहं, कृष्णोऽहं प्रेमकर्षकः । सर्वत्र रमणादामः, सर्वकर्महरो हरिः॥ अलभ्यो नास्तिकानान्तु, दुर्लभो मृढचेतसाम् । सुलभ्यो ज्ञानिनां प्रेम-भक्तानां कर्मयोगिनाम् ॥ १५४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org