________________
[द्वितीयाध्याये सर्वत्र सर्वरूपं मां, ब्रह्मरूपेण यो भजेत् । कुर्वन्कर्त्तव्यकर्माणि, शुद्धब्रह्म स्वयं भवेत् ॥ कर्तव्येषु विचिन्त्येषु, सर्वेषु ब्रह्मभावकः । सर्वोत्तमः स मे भक्तः, साक्षात्स ईश्वरः स्वयम् ॥ १३२ तत्त्वमस्यादिसन्मन्त्रैर्मत्तद्भेदं विना जनाः। ध्यानं कुर्वन्ति सत्प्रेम्णा, तेषु व्याप्नोमि शक्तितः॥ १३३ सूरयो ज्ञानिनः सन्तो, नश्यन्ति न कदाऽपि ते । मद्धयानान्मत्स्वरूपास्ते, ज्ञातव्या इति मे मतम् ॥ १३४ अनन्ता आगमाः प्रोक्ता-स्तेषामास्तिक्य-धारकाः । स्वर्ग सिद्धिञ्च गच्छन्ति, जैना आर्या अनादिकाः॥१३५ गच्छन्ति दुर्गतिं नैव, निर्लेपास्ते सदा मताः । मन्नाम-जापका वीर-महन्तञ्च जिनेश्वरम् ॥ १३६ दर्शन-ज्ञान-चारित्र-त्रिमूर्ति-रूपवानहम् । निन्दन्ति मत्स्वरूपं ये, ते विनश्यन्ति मोहतः ॥ १३७ सर्वागमैश्च सद्वेदः, स्तृयमानो गिरांपतिः। वीरस्तीर्थङ्करः सोऽहं, ध्रौव्योत्पादव्ययी महान् ॥ १३८ अतः सर्वस्वरूपं मां, ज्ञात्वा मन्मयभावतः । सर्वकर्माणि कुर्वन्तो, भजध्वं कर्मयोगिनः॥ ज्योतिषामप्यहं ज्योतिः, सर्ववेदान्तभास्करः। आनन्दानामहं मूलं, धर्म्यतीर्थप्रवर्तकः ॥ अनाद्यनन्तमहन्त, शुद्ध-प्रीत्या भजन्ति माम् । सर्वभूतेषु ते सन्ति, तेष्वहं व्यक्तिशक्तितः ॥ वादाँश्च प्रतिवादाँश्च, सन्त्यज्य सर्व-संशयान् । सच्चिदानन्दरूपं मां, जानन्ति प्रेमयोगिनः॥ १४२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org