________________
१२०
प्रेमयोगः ] असंख्यदृष्टिभिर्ये मां, संश्रयन्ते जनाः सदाः । तदृष्टिभिरहं दृश्यः, शुद्धप्रेमप्रवाहतः॥ असंख्यातानि नामानि, मदीयानि निबोध्य ये। स्मरणं मम भावेन, कुर्वन्ति सिद्धिगामिनः ॥ अहं वीरं महामन्त्रं, श्वासोच्छ्वासंपदैर्जपेत् । आप्नोति स परब्रह्म, जित्वा मृत्युं महाभयम् ॥ १२१ वीरवीरेति मज्जापः, सर्वशक्तिप्रदायकः। लीनो भवति यस्तत्र, तस्याऽस्ति न भयं कचित् ॥ १२२ मद्रपन्तु परब्रह्म, लोकाऽलोकप्रकाशकम् । द्रव्य-पर्यायसद्रूप-मस्ति नास्ति स्वभावकम् ॥ १२३ स्वरूपं मम विज्ञाय, पूर्णप्रीत्या भजन्ति ये । सिद्धा बुद्धाः परेशानाः, शुद्धात्मानो भवन्ति ते ॥ १२४ मद्रागिभक्तजीवानां, सर्वशक्तिविकासकः । अहं साक्षात्परब्रह्म, तनौ व्यक्तोऽस्मि कर्मतः॥ १२५ यं यं भावं स्मरन् भक्तो, भजते तं प्रपद्यते । यादृशी भावना यस्य, तादृसिद्धिं ददाम्यहम् ॥ १२६ तरङ्गा एव पाथोधि-स्तत्र भेदो न विद्यते । जीवानां मे तथाऽभेद आत्मद्रव्यस्य सत्तया ॥ १२७ व्यक्तोऽहं हृदि भक्तानां, ज्ञानिनाश्च विशेषतः। योगिनां शुद्धब्रह्माऽहं, व्यक्तः स्वात्मन्यपेक्षया ॥ १२८ सादृश्यं सत्तया बुद्धा, सर्वत्रैक्यं विभावयन् । सत्तया व्यापकं ज्ञात्वा, मद्रूपं याति रागवान् ॥ १२९ भक्तानामप्यहं भक्तः, सेवकानाञ्च सेवकः । ध्यातॄणामप्यहं ध्याता, सर्वरूपोऽस्मि भक्तितः॥ १३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org