SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ १८ त्यागिनश्च गृहस्था ये, सस्वभावेन मत्पराः । जीवन्मुक्तास्तु ते भूत्वा, परया यान्ति सद्गतिम् ॥ आत्मवत्सर्वजीवेषु वर्त्तनं परमार्थतः । उत्तमा सैव मद्भक्ति, सर्वदोषनिवारिका ॥ रसबाह्या निवर्त्तन्ते मद्भक्तिरसयोगतः । मत्तद्भेदो न यत्रास्ति, सा भक्तिर्मत्स्वरूपिका ॥ देहिनां दुःखनाशार्थ - मात्मवत्पूर्णरागतः । क्रियते या प्रवृत्तिः सा, मत्सेवैव शिवप्रदा ॥ सर्वजीवेषु मद्भाव-मनुभूय स्वभावतः । जीवन्ति मत्स्वरूपास्ते, भक्ताः परोपकारिणः ॥ सात्त्विकादि त्रिधा कर्मकारकाः प्रेमयोगिनः । भवान्धौ नैव मज्जन्ति, तरन्ति ते च मन्मयाः ॥ यथा ग्रहादितेजांसि लीयन्ते भानुतेजसि । सर्वदेवास्तथा धर्मा, लीयन्ते मयि सर्वथा ॥ भक्तैर्मदाश्रयात्सर्वे धर्मा आराधिताः खलु । सर्वधर्मान्विहायातो, भजध्वं मां शरण्यकम् ॥ अशरण्यशरण्योऽहं सर्वपापात्मपावकः । महाब्रह्मा महाविष्णुर्वीतरागो जिनेश्वरः ॥ साकारोऽहं निराकारः, श्रद्धावान् प्रेमभक्तितः । निरासक्ततया भक्तः, शीघ्रं मां प्रतिपद्यते ॥ आस्तिकास्ते सदा बोध्या, मन्नामाकृतिरागिणः । निराकाराच्च साकारं, मत्स्वरूपं विशिष्यते ॥ मच्चरित्रं महाप्रेम्णा, शृण्वन्ति वाचयन्ति ये । गायन्ति स्तुवते चैव, ध्यायन्ति मुक्तिगामिनः ॥ Jain Education International For Private & Personal Use Only [ द्वितीयाध्याये १०७ १०८ १०९ ११० १११ ११२ ११३ ११४ ११५ ११६ ११७ ११८ www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy