________________
प्रेमयोगः] राग-द्वेष-परीणाम-युता संसार-कारिणी। वैषयिक-सुखार्थाय, कृता सा मध्यमोच्यते ॥ मत्पदार्थ जनैर्यद्यन्मनोवाकाययोगतः । क्रियते स्वाऽधिकारेण, प्रशस्यरागसंयुतम् ।। विधाय हृदि मद्रपं, परा सा सत्त्वसंयुता । मदैक्यरूपभक्तिस्तु, प्राप्यते मज्जनः खलुः ॥ मयि विश्वासिनो नित्यं, जगदुन्नतिकारके। यद्भाव्यं तद्भवत्येव, हृदीति कृतनिश्चयाः ॥ नान्यदिच्छति भेदेन, मदभेदस्वरूपिणः । परब्रह्म पदं यान्ति, परा भक्ता मदर्थिनः ॥ प्रारब्ध-कमभोक्तारः, कापि मुह्यन्ति नैव ते । मदर्थ सर्वकर्माणि, कुर्वन्ति शुद्ध-बुद्धितः ॥ मयि लीना मनोवृत्या, बाह्यतः कर्मकारकाः। मन्मयाः सर्वविश्वेषु, मत्स्वरूपविलोकिनः ॥ मत्पदं ते द्रुतं यान्ति, मत्तद्भेदविनिर्गताः। शुद्धब्रह्म विना किश्चित् पश्यन्ति नैव मत्पराः॥ १०२ संपूर्ण मां प्रपश्यन्तः, सर्वजीवेषु सत्तया। आत्मभावेन जीवानां, योगक्षेम-विधायकाः॥ कृत्वा मदर्पणं सर्व, जीवन्ति मत्पदेच्छया । शुभाशुभपदार्थेषु, साम्यभावविधायिनः ॥ भवे मुक्तौ समा भक्ताः, पराभक्तिसमन्विताः। सदा तेषां हृदि व्यक्तो, जाग्रदूपेण भावतः ॥ १०५ यद्यत्कुर्वन्ति तत्सर्व, स्वाऽन्यजीवनहेतवे । सर्वथा मयि संन्यस्य, स्वाऽधिकारेण वर्तिनः ॥ १०६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org