________________
१६.
देहिनां मत्पदेच्छूना -मुन्नतिः स्याद्भवे भवे । अन्तराया विनश्यन्ति, शुद्धप्रेमप्रवर्त्तिनाम् ॥ मन्नाम गायका भक्ताः, सन्तो मद्रूप - संश्रिताः । सर्वधा सर्वकालेषु, विश्वपावनकारकाः ॥
क्षेत्र - कालाऽनुसारेण, जैनधर्मस्य रक्षकाः । तीर्थङ्कराः प्रजायन्ते मद्रूपाः सर्वसूरयः ॥ तेषां भक्तिस्तु मद्भक्ति-रैक्यं धर्माऽवतारिणाम् । पूर्ण श्रद्धात्मकप्रेम, तत्र धायें सुधर्मिभिः ।। भ्राम्यन्ते ये न मद्भक्ता, नास्तिकै र्वञ्चनात्कदा | मद्रूपास्ते प्रियाः पूर्णा, मम धर्मप्रचारकाः ॥ तीर्थेशं वासुदेवं मां, प्रेमभक्त्या भजन्ति ये । भक्ता आत्मस्वरूपास्ते, सर्वधर्मप्रचारकाः ॥ प्रेमधर्मो महादुर्गो, मत्प्राप्त्यर्थं विचार्थताम् । मृत्युं प्रेमणि विज्ञाय, भवत मम रागिणः ॥ मदीयप्रेम सामर्थ्य, योगिनाऽपि न बोध्यते । सर्वधर्माः प्रलीयन्ते, मदीयप्रेमावरे ॥ मदीयप्रेमलीनात्मा, यादृशस्तादृशो जनः । सर्वकर्माणि कुर्वन् सन्कर्मबन्धैर्न बध्यते ॥ राजसास्तामसा भक्ताः, सात्त्विकाः प्रेमभेदतः । मम प्रेमन्मनी - भावाद्भवन्ति मुक्तिगामिनः ॥ ममस्ति त्रिविधा भक्ति - रधममध्यमपरा । याञ्चाखेद-भय-द्वेष - मोह युक्ताऽघमाऽशुभा ॥ लोभाशा- स्वार्थ-भेदादि, युक्ता सा मध्यमा मया । ऐहिक - स्वार्थ संपत्ति-दायिनी कथिता नृणाम् ॥
Jain Education International
[द्वितीयाध्याये
For Private & Personal Use Only
८३
८४
८५
८६
८७
८८
6o.
९१
९२
९३
०४
www.jainelibrary.org