________________
पाना
प्रेमयोगः] जैनधर्मप्रकर्तारं, सर्वविश्वस्य तारकम् । ममाऽवतारमहन्तं, पूजयन्ति नराऽमराः ॥ मद्रागिर्धामणां सत्पं, कारुण्यं जायते हृदि । मैत्रीमूलं महाप्रेम, धर्मार्थकाममोक्षदम् ॥ मम धर्मस्य कर्त्तारो, मम धर्माऽवतारिणः । जातिचाण्डालभक्ता ये, पवित्रा धर्मकर्मभिः ॥ यादृशस्तादृशो भक्तो, मद्रागी सवतो महान् । मत्समः सोऽपि संपूज्य, आराध्यस्तुल्यसाधनैः ॥ ७४ आर्हता मे सदा भक्ताः, सर्वजातीयमानवाः । गृहस्थाः साधवो बोध्या, योगसन्यासमार्गिणः ॥ ७५ मद्रपं यत्प्रियं तत्त-त्सर्वत्र सर्वथा नृणाम् । वस्तुतः प्रिय आत्मैव, स्थूल-सूक्ष्मेषु जानताम् ॥ सर्वेश्वरोऽहमात्मैव, सर्वधर्मप्रवर्तकः । ईश्वरास्ते महाभक्ता, मत्सद्धर्माऽवलम्बिनः ॥ पापानामपि पापा ये, चतुर्धा घातकारकाः। मन्नामस्मरणाच्छीघ्रं, मुक्तिगा नैव संशयः॥ कोऽपि कल्याणकृव्यो, मच्छूद्धारागयोगतः । ऊर्ध्वस्थान-क्रमारोही, भवेदन्ते शिवंगमी ॥ लेशोऽपि भक्तिधर्मस्य, सर्वभीतिविनाशकः । लेशोऽपि धर्मकार्यस्य, मोक्षमार्गप्रवाहकः ।। कल्याणस्य विचारेण, गुणस्थानं ब्रजेच्छुभम् । कोऽपि कल्याण-कृद्भक्तो, मत्पदं याति निश्चयी॥ ८१ भक्ताः परोपकाराय, जीवन्ति सन्मदाज्ञया। स्खलतामा भक्तानां, मज्जापो मुक्तिकारकः॥ ८२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org