________________
W
[ द्वितीयाध्याये मत्स्वरूपं महाप्रीत्या, ज्ञात्वा श्री सद्गुरुं शुभम् । सर्वस्वार्पणसद्भक्त्या, भजन्तु सद्गुरुं जनाः ॥ गुर्वाशीः प्रेम सद्भक्त्या, प्राप्यते सत्यशिष्यकैः । आत्मोन्नतिपथान्सर्वान् , सद्गुरु-दर्शयिष्यति ॥ प्रेम्णोत्साहश्च सद्धर्य, प्रेम्णा ध्येयेषु लीनता। स्थैर्य वीर्य च गाम्भीर्थ, मेम्णा सञ्जायते नृणाम् ॥ ६१ प्रेम्णा ब्रह्मसुखास्वादो, मुक्तिहस्ततल-स्थिता । साहसं पूर्णसन्तोषो, दाम्पत्यञ्च क्षमा परा ॥ यत्र प्रेम भवेत्तत्र, लेही दोषान्न पश्यति । सर्वत्र व्यापकप्रेम्णा, निर्दोषमीक्षते जगत् ॥ प्रेम्णा वैरस्यना शोऽस्ति, द्वेषो वैरण वर्द्धते । अतो विश्वोपरि प्रेम, धार्य मत्प्रेमयोगिभिः ॥ प्रेम्णा धर्मस्य सद्वृद्धिः, प्रेम्णा धर्मस्तु रक्ष्यते । यत्र प्रेम न किं तत्र, प्रीत्यां दोषो न विद्यते ॥ मम नामाकृतिद्रव्य-भाधेषु प्रेम धार्यताम् । मन्नाम भजनं प्रेम्णा, सर्वपापनिवर्त्तकम् ॥ सर्वज्ञं मां महावीरं, ज्ञात्वा मत्प्रेम सेव्यताम् । भक्तानां सर्वजीवानां, रक्षकोऽहं प्रभुर्महान् ॥ सर्व-देवपतिं सर्वविश्वरूपं विजानताम् । मामहन्तञ्च विज्ञाय, सेवध्वं प्रेमयोगिनः॥ सर्वविश्वमयं ज्ञात्वा, अस्ति नास्ति स्वरूपतः । ये जना मां भजन्ते ते, मुच्यन्ते कर्मबन्धनात् ॥ मां कर्तारमकर्त्तार, व्यक्ताऽव्यक्तं प्रवुध्य ये। शुद्ध-प्रीया प्रवर्त्तन्ते, ते जीवाः प्रभुतामयाः
&
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org