________________
प्रेमयोगः] नित्यं नैमित्तिकं प्रेम, सर्वजीवेषु दृश्यते । यथावृत्तिस्तथा प्रेम, तारतम्यविशेषतः॥ सत्यप्रेम भवेद्यत्र, तत्र सर्वे गुणाः स्थिताः । अतः प्रेमोद्भवार्थ यत्सत्कर्तव्यं विकतः ॥ यत्र स्वात्मरतिस्तत्र, कर्तव्यं प्रेम मानवैः । ततः स्वात्मोन्नतिः पूर्णा, मया सत्यं प्रभाषितम् ।। स्वात्मवत्सर्वजीवेषु, कर्त्तव्या सत्यरागता । स्वार्थवदन्यजीवानां, स्वार्थेषु च सहायता ।। सर्व विश्वं मयि ज्ञात्वा, युष्मासु च परस्परम् । ओतप्रोतं परिज्ञाय, भवन्तु भक्तियोगिनः ।। मनःकायप्रवृत्यैव, कर्तव्या शुद्धरागता । मन्मयाः स्वान्तरे भूत्वा, कुरुध्वं कर्म सज्जनाः ॥ ५२ प्रेमाग्नौ कामदोषाद्या, भस्मीभूता भवन्ति हि । शुद्धप्रेमाग्निसंस्नातस्तस्य दुःख न विद्यते ॥ कृपाऽस्लेव गुरोः प्रेम्णा, प्रेम चिन्तामणीयते । प्राप्तव्यं न विना प्रेम, कर्तव्यञ्च न सिद्धयति । प्रेम्णा स्याचित्तसंशुद्धिरात्मशुद्धिश्च जायते । प्रेम्णा भयं न कुत्राऽपि, प्रेम्णा द्वषो निवर्त्तते ॥ सद्गुरोस्तुष्टये प्रेम, मन्त्र-यन्त्रात्मकं महत् । अतः सर्वप्रकारेण, भवन्तु गुरु-रागिणः ॥ परब्रह्म गुरु पश्यन् , मद्रागी तु गुरुर्महान् । सर्वदेवान्गुरौ पश्यन् , पूर्णानन्दमवाप्नुयात् ॥ ईश्वरं सद्गुरुञ्चैकं, यः पश्यति स पश्यति । प्राप्तव्यं यन्मया तत्त, सद्गुरुणैव लभ्यते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org