________________
-
-
[द्वितीयाध्याये ये ये प्रेमविकारास्ते, दुष्टकामप्रदीपकाः। तान्सन्त्यज्य मम स्नेही, सत्प्रीतिं धारयेद् हृदि ॥ ३५ जीवान्विज्ञाय मद्रूपान् , सर्वजीवेषु मां भजन् । आत्मनः परमात्मत्वमाप्नोति, भक्तिमान्नरः ॥ ३६ सत्तातः सर्वजीवेषु, मत्सिद्धत्वं हृदि स्मरन् । स्वात्म-सिद्धत्वमाप्नोति, प्रीत्या मल्लीनताश्रमी ॥ ३७ सर्वकर्तव्य-कर्माणि, करोति प्रेमभक्तितः । धृत्वा मां हृदि सन्तोषी, मद्भक्तः प्रीतिमान् शुभः ॥ ३८ मां विनाऽन्यपदार्थेषु, नैव द्वेष्टि न कांक्षति । निर्लेपः प्रभुधर्मी स, प्राप्नोति मगति स्थिराम् ॥ ३९ मन्मयं जीवनं कृत्वा, मयि प्रेम जुहोति यः । स सर्वेश्वरतां प्राप्य, पूर्णानन्दं समश्नुते ॥ जडे शुभाऽशुभं भावं, त्यक्त्वा मन्मयतां गतः । मयि प्रेमविलीनो यः, स संन्यासी च योगिराट् ॥ ४१ प्रेम्णा ब्रह्मणि लीनस्य, निष्कामत्वं प्रजायते । प्रेमपक्क-महाभक्तः, कालातीतः प्रभुः स्वयम् ।। कृत्रिमप्रेम सन्त्यज्य, भव्या भजत मां प्रभुम् । सत्यप्रेम मनुष्याणां प्राप्तव्यं नाऽवशिष्यते ॥ स्वार्थाय परमार्थाय, प्रेमाऽवश्यकता शुभा। प्रेममूलाः सुसंबन्धाः णा सर्वत्र मिष्टता ॥ स्वातन्त्र्यमात्मनः प्रेम्णा, तथा प्राणाऽर्पणं स्वतः । आस्तिक्यं प्रेमतो बोध्यं, सर्वत्र सर्वदेहिषु ॥ एकधा च द्विधा प्रेम, त्रिधा प्रेम स्वभावतः। आनन्त्यं प्रेम सत्ताया, जीववृत्तिविभेदतः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org