________________
प्रेमयोगः ]
मयि स्वाभाविकप्रेमा, पूर्वजन्मानुभावतः । निःशङ्कः सर्वथा भूत्वा वर्त्तते योग्यकर्मसु ॥ मद्भक्तिः सैव बोद्धव्या, सर्वशक्तिप्रदायिका । सर्वशक्तिस्वरूपं मां, भक्ता भजन्ति शक्तये ॥ बाह्यान्तरस्वशक्तीनां, विकासाय प्रवृत्तयः । भक्तिरूपा विबोद्धव्या, मद्भक्तानाञ्च बुद्धयः ॥ भक्तिरूपाः सदा ज्ञेया, आपद्धर्मप्रवृत्तयः । hot धर्मस्य साम्राज्य- रक्षार्थ सर्वदेहिनाम् ॥ हार्दिक प्रेम कर्त्तारो, मद्भक्ताः पूर्णयोगिनः । मोह - दोषं परित्यज्य, कर्मातीता भवन्ति ते ॥ शुद्ध प्रेममयाः सन्तो भवन्ति मुक्तिगामिनः । प्रेमहीना न पश्यन्ति, स्वात्मानं मां जगत्पतिम् ॥ प्रेमतः सत्यसंबन्धाः प्रेम स्वात्मार्थ कारकम् । जायन्ते धर्मिणः शीघ्रं प्रेमज्योतिर्विलासिनः ॥ यत्र प्रेम दया तत्र, स्वात्म - भोगादिसङ्गणाः । वसन्ति नात्र संदेहः, सत्यमेव ब्रवीम्यहम् ॥ प्रेमहीना जनाः शुष्का, आसुर भावसंश्रिताः । क्रूराः स्वार्थाश्रया बोध्या, दुष्टा विश्वासघातिनः ॥ तार्किकाः शाब्दिकाः शुष्का-स्तथा विज्ञानवादिनः । विना प्रेमतया जीवाः, सर्वत्र दुःखभागिनः ॥ प्रेमभक्तिप्ररूढस्य, मर्यादा का न विद्यते । सर्वकर्तत्र्यकार्येषु, स्वातन्त्र्यमर्हति स्वयम् ॥ वैरागिषु प्रभो रागः, शुद्धः सञ्जायते स्वतः । शुद्धपरार्थकर्त्तारो, भक्तास्ते त्यागिनः सदा ॥
Jain Education International
For Private & Personal Use Only
શ્
२३
२४
२५
२६
२७
२८
३०
३१
३२
३३
३४
www.jainelibrary.org