________________
[द्वितीयाध्याये प्रेममूला प्रभोभक्ति-निर्दोषा विश्ववत्सला। इष्टं मिष्टं प्रभुप्रेम, प्राप्यते भव्यसात्त्विकैः ॥ अस्त्यात्मार्थ प्रियं सर्व, नाऽन्यथा प्रियता कदा। यत्रात्मा प्रियता तत्र, जायते ब्रह्मदर्शनम् ।। आत्मनः सर्वकामाय, प्रियं सर्व न चाऽन्यथा। प्रियात्मा सजीवाना-मतः प्रेम प्रशस्यते ।। महारसं परिज्ञाय, प्रेमैव तद्विधीयताम् । प्रशस्य सर्वधर्मार्थ, नाऽन्योपायोऽस्ति तद्विना ॥ १४ आत्मान्धौ प्रेममग्नानां, ब्रह्मानन्दः प्रजायते । आत्माऽऽत्मनाऽऽत्मनिर्भग्नः, सर्वत्र ब्रह्म पश्यति ॥ १५ प्रेमयोगं विना विद्वान् , मत्स्वरूपं न पश्यति । बहिरन्तः प्रभुं पश्यन् , प्रभुरूपः स्वयं भवेत् ।। प्रेम परीक्षते ब्रह्म, मोक्षस्य कारणं महत् । शुद्धब्रह्मनिमग्नानां, पुनर्जन्म न विद्यते ॥ अनन्ताः प्रेमपर्यायाः, शुद्धाऽशुद्ध स्वरूपतः । आत्मनः सर्वपर्यायास्ते मे कर्माऽनुभावतः ॥ भक्ताधीनो महावीरो, वेद्योऽहं सर्वरक्षकः । प्रेम्णा मयि प्रलीनस्य, सर्वसिद्धिं करोम्यहम् ॥ प्राप्ते मृत्यौ न यो द्वेषी, रागी च नैव जीवने । जैनशासनवृद्धयर्थं, जीवति मयि रागवान् ॥ मत्प्रेमा जीवनाऽऽहतिं, ददाति धर्मरक्षणे । मुह्यति नैव मोत्येषु, भावषु वासनाबलात् ॥ मयि संपूर्णसत्प्रेमा, वदेही भवति स्वयम् । वादानां प्रतिवादानां, नात्र किञ्चित्प्रयोजनम् ॥ २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org