________________
द्वितीयाध्याये प्रेमयोगः नाऽहं स्वर्गे च पाताले, भक्त्यां वासोऽस्ति मे सदा । मद्भक्ता यत्र तत्राहमानन्दाद्वैतरूपतः ॥ भक्तियोगरसो बोध्यः, प्रेमैव व्यक्तहर्षदः। व्यक्तब्रह्म महाप्रेम, मत्प्राप्तिः प्रेमतो भवेत् ।। अज्ञानामपि बालानां, मुक्तिः प्रेम्गा प्रजायते। सर्वत्र सर्वजीवेषु, भवत प्रेमधारिणः ॥ विशुद्धप्रेमताऽऽधारः, सोऽहं साक्षान्निबोधत । प्रेमाऽवतारिणः सन्तः, सर्वथा ते मम प्रियाः ।। माता भक्तिः पिता ज्ञानं, सर्वत्र सर्वदेहिनाम् । विना भक्ति न को भव्यो, ब्रह्मानन्दं विलोकते ॥ विशुद्धब्रह्मलाभार्थ, विशुद्धप्रेमजीवनम् । प्राप्तव्यं सद्गुरोः पूर्णा, कृपां प्राप्याऽग्विले नैः॥ माता ब्रह्म पिता ब्रह्म, साक्षाद्ब्रह्म स्वयंगुरुः । ब्रह्मरूपा विबोद्धव्याः, सर्वजीवाः सनातनाः ।। मित्रं ब्रह्म तथाचार्याः, सर्वत्र सर्वदेहिनः। प्रेम्णा ब्रह्मस्वरूपं सज्झाता भक्तो महेश्वरः ॥ वैषयिकोऽशुभो रागः, प्राणिनां कर्मबन्धकः । धर्ममूलं तु सत्प्रेम, सर्वविश्वासकारणम् ॥ श्रद्धामूलं तु सत्प्रेम, सर्वाकर्षण-कारणम् । निर्दोषप्रेमतो भक्त, आनन्दाद्वैतमश्नुते ।
६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org