SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ तनुभृद्गुरवो ये ये, दर्शन - ज्ञानधारकाः । ते मत्सत्तास्वरूपेण, योगिनो ज्ञान- सागराः ॥ पश्यन्तस्तेषु मां तस्मात् पश्यन्तो मयि तान्सदा । कर्म कुर्वन्ति ये भक्ता, मदभिन्नाः शुभङ्कराः ॥ जन्म - मृत्यु - जरातीता, मच्छ्रद्धायुक्तदेहिनः । मन्तव्याः कालजेतारो, मुक्तधामाश्रिताः शुभाः ॥ मच्चिन्ता मत्परा जीवाः, सर्वोऽहमिति वेदिनः । ते प्राप्नुवन्ति मद्राम, पूर्णानन्दमयं परम् ॥ [प्रथमाध्याये " आत्मनः परमात्मत्वं, प्रपद्यन्ते ममाश्रिताः । अहं देवं विदित्वा मां मुच्यन्ते कर्मबन्धनात् ॥ कुतर्कान्सर्वशङ्काश्च त्यक्त्वा मां भजतात्मनि । श्रद्धावतः समुद्धृत्य मत्स्वरूपान् करोम्यहम् ॥ समुपास्या सदा श्रद्धा श्रद्धावद्भिः शिवङ्करा । पितेव सर्वजीवानां शर्मकत्री स्वभावतः ॥ सर्वजातिबलेष्वेव, भक्तियोगो महाबलः । सेव्यमानस्तु मातेव सर्वत्र सर्वशक्तिदः ॥ ॥ इति श्री जैन- महावीर - गीतायां श्री श्रद्धायोग-नामकः प्रथमोऽध्यायः समाप्तः ॥ Jain Education International For Private & Personal Use Only ५७ ५८ ५९ ६१ ६२ ६३ ६४ www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy