________________
श्रद्धायोगः सर्वदेशीयलोकेषु, ब्रह्माण्डेषु वसाभ्यहम् । यः कोऽपि सेवते श्रद्धा, तं सेवे प्रेमतः सदा ॥ सर्वोत्कृष्टा महाश्रद्धा, सर्व-स्वार्पण-कारिका । सर्वस्वार्पणकत्तृणां, समुल्लसन्ति शक्तयः॥ पूर्णश्रद्धाबलेनैव, मां सर्वत्र विजानत। भक्तस्यात्मप्रदेशेषु पूर्णशक्ति ददाम्यहम् ॥ श्रद्धावत्सु बलं यादृक् ताइवीर्य न नास्तिके । अनन्तवीर्यरूपेण महासः सर्वदेहिषु ॥ श्रद्धा प्रमाणतो वीर्य, श्रद्धावत्सु प्रकाशते । जीवाः प्रभुसमा बोध्या मच्छद्धातो महीतले ॥ सर्वाचार-विचारेषु, श्रद्धया सर्वसत्यता। असत्यं विपरीतं यच्छ्हाहीनमसन्मतम् ॥ विश्वासः सर्वजीवानां, धर्माचारप्रवर्तकः । आत्मविश्वासनाशे तु, वीर्यनाशो भवेन्नृणाम् ॥ ५१ मविश्वासे स्थिते सर्व, सत्यं प्रेयञ्च भासते । यत्र कुत्रापि सच्छूद्धा, तद्रूपं मामकं मतम् ।। धर्म-देव-गुरुश्रद्धा, नानारूपा शुभावहा । श्रद्धा सा मत्स्वरूपति, ज्ञात्वा मां भजतात्मनि ॥ ५३ असुरा नास्तिका बोध्याः, सुरा विश्वासधारकाः। विश्वासिनां समुद्धा, पालकोऽहं सनातनः ॥ अतः श्रद्धास्वरूपेण, मां भजध्वं जनाः सदा । मच्छरणागता जीवाः सिद्धा बुद्धा भवन्ति ते ॥ देहरूपावतारा मे, सर्व-जीवोपकारकाः । अर्हन्तो वीतरागा ये, चिसत्ताव्यक्तितः शुभाः ॥ ५६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org