________________
| प्रथमाध्याये
३५
अन्तः शक्ति - महाश्रद्धा, मत्स्वरूपा सनातना । आस्तिकानां महामाता, मत्तोऽभिन्ना निबोधत ॥ मम चैतन्यसत्तायां, श्रद्धा भवति निश्चला । यस्य तद् वृद्धये व्यक्तो भवामि पूर्णभावतः ॥ श्रद्वैव परमं ब्रह्म, श्रद्वैव परमं बलम् । श्रद्वैव ज्योतिषां ज्योतिः, श्रद्धातः सर्वसंपदः ॥ सर्वाधारा सदा श्रद्धा, श्रद्धा प्रामाण्यकारिका । यत्र श्रद्धा स्थिरा तत्र, लक्ष्मी - कीर्त्ति - शुभाशयाः ॥ ३६ श्रद्धायाः सर्व पर्याया, मत्स्वरूपप्रकाशकाः । श्रद्धारूपेण सेवन्ते, मां तेषां शर्मकारकः ॥ श्रद्धांविना बलं नास्ति, धैर्य नास्ति च साहसम् । श्रद्धयैव विकासन्ते, स्वात्मनः सर्वशक्तयः ॥
श्रद्धाचार- बलं पूर्ण, सर्वदोष - विनाशकम् । सर्वकार्याणि सिद्धयन्ति मच्छद्धाश्रयतः स्वतः ॥ मच्छ्रद्वा यत्र तत्राऽस्ति, मामकीनं बलं शुभम् । मच्छ्रद्धाकर्षिता देवा, देव्यश्च सर्वशक्तयः ॥ देवेशं मां हृदि ध्यात्वा, पूर्ण श्रद्धायुताजनाः । कुर्वन्ति यानि कर्माणि तेषां सिद्धिं करोम्यहम् ॥ अहं श्रद्धास्वरूपेण, हृदि श्रद्धात्मनां स्थितः । प्रत्यक्षीभूय धर्मस्य, दृष्टारं मां निबोधत ॥ आध्यात्मिकी महाश्रद्धा, देवी भगवती स्थिरा । नानारूपेण जीवानां हृदि तिष्ठति सर्वदा ॥ ब्रह्मशक्तिस्वरूपा सा, मच्छ्रद्वा हृदयोद्भवा । सर्वथा सर्वजीवानां धर्ममूला प्रवाहतः ॥
Jain Education International
5
For Private & Personal Use Only
३३
३४
३७
३८
३९
४०
४१
४२
४३
४४
www.jainelibrary.org