________________
श्रद्धायोगः] श्रद्धावान्मामवाप्नोति, नान्यः पन्था मदाप्तये। मोहपापावृतैलोकैनैव प्राप्यः कदाचन ॥ अद्धावद्भिः सुविश्वास्यो, विपत्तिसङ्कटेश्वहम् । सर्वदुःखसमुद्धा, सद्भक्तानां सदा प्रियः ॥ मम प्रियाः सदा भक्ताः श्रद्वावन्तो विपत्तिषु । यत्र श्रद्धालवो भक्तास्तेषां हृदि वसाम्यहम् ॥ श्रद्धावतः परीक्षेऽहं, दुःखकाले विशेषतः। तथापि न भवेयुर्ये भ्रष्टास्ते मे बहुप्रियाः ॥ प्रत्यक्षोऽहं सदा तेषां, भवामि नैव संशयः। मच्छ्रद्धायुक्तभक्तानां, रक्षकोऽहं सुरागिणाम् ॥ २५ सात्त्विकाः सर्वभक्तेषु, श्रद्धावन्तो मम प्रियाः । रक्षगार्थ सदा तेषां, व्यक्तरूपो भवाम्यहम् ॥ श्रद्धया प्राप्यते धर्मः, अद्धया ब्रह्मदर्शनम् ।। अद्धा ख्याता महादेवी, स्वात्मजीवनजीविका ॥ विश्वोपयोगिनी द्वा, श्रद्धाम्बा सर्वरक्षिका । श्रद्धास्वरूपं मां ज्ञात्वा, श्रद्धां भजत देवताम् ॥ २८ अविश्वासं परित्यज्य, श्रद्धाङ्गीक्रियतां जनाः ।। श्रद्धया भगवद्पा, भविष्यथ न चाऽन्यथा ॥ अह-ब्रह्म-स्वरूपोऽहं, सच्चिदानन्दधर्मवान् । तीयेशा आदिनाथाद्या सत्तातो मत्स्वरूपकाः ॥ ३० वपुर्वाणि-मनोरूपं, मत्स्वरूपं तु बाखतः । आन्तरं दर्शन-ज्ञान-चारित्रं शुद्धभावतः॥ आत्मरूपेण सर्वत्र, सत्तातः सर्वदेहिषु । व्यापकोऽहं चिदानन्दः प्राप्योऽस्मि श्रद्वयाऽखिलैः॥ ३२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org