________________
[प्रथमाध्याये पूर्णश्रद्धास्वरूपेण, व्यापकोऽहं स्वशक्तितः।। अनन्तानि स्वरूपाणि, ज्ञानादीनि भवन्ति मे ॥ पूर्णाद्वाप्रवाहेण, बहिरन्तर्वसाम्यहम् । मत्स्वरूपं विजानाति, श्रद्धावान्नैव नास्तिकः ॥ १० अनेकजन्मसंस्काराच्छ्रद्धावान्मां प्रपद्यते। गुरुकृपातः श्रद्धावान् , प्राप्नोति मां प्रयत्नतः ॥ शास्त्रकोटिं परित्यज्य, भजध्वं श्राद्धया हि माम् । अहं वः सर्वदोषेभ्यो, मोचयिष्यामि भावतः॥ १२ सच्चिदानन्दरूपेण, सर्वत्र ब्रह्मदर्शकः । भक्तोत्तमः स मन्तव्यः, पुण्यात्मा पापनाशनः ।। मत्स्वरूपाः सदाऽर्हन्तः, सूरि-वाचक-साधवः । मदीयशुद्धरूपाः स्यु-र्वीतरागाः स्वयंभुवः ॥ जिनोऽहं सर्वजनेषु, बुद्धोऽहं बौद्धधर्मिषु । वैषणवानामहं विष्णुः, शिवः शैवेषु वस्तुतः ॥ कृष्णोऽहं वासुदेवोऽहं, महेशोऽहं सदाशियः। सर्वगुरुस्वरूपोऽहं, श्रद्धावान्मां प्रपद्यते ।। सागरोऽहं समुद्रेषु, गङ्गाऽहं स्यन्दिनीयु च । सर्वशक्तिषु शक्तोऽहं, भक्तानां भक्तिकारकः ॥ १७ महापापा जनाः शीत्रं, मद्भक्त्या स्वर्गगामिनः । प्राप्नुवन्ति शुभा मुक्ति, मद्भक्ताः सहन नावतः ॥ १८ वर्णयितुं न सर्वज्ञः, शक्तोऽस्ति भुवन त्रये । श्रद्धामाहात्म्यमुत्कृष्टं, वाण्या पूर्ण न कथ्यते ॥ १९ अपूर्वा तु मम श्रद्धा, नास्तिकैः प्राप्यते कथम् ? । प्राप्यो नाऽहं बहिर्बुद्वया, नैव तर्कशतैरपि ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org