________________
श्री जैन महावीरगीता
प्रथमाध्याये श्रद्धायोगः
प्रणम्य श्री महावीरं, गणेशा गौतमादयः । भूपालाः श्रेणिकाद्याश्च, पप्रच्छुः प्रेमभक्तितः॥ सर्वधर्माः प्रयुध्यन्ते, नश्यन्ति संशया यतः । सर्वधर्मस्य यत्तत्त्वं, प्रोच्यतां तद्दयानिधे ! ॥ वेदागमाश्च पूर्वाणि, दृष्टिवादस्तयेतरत् । तेषां यत्र समावेशः, प्रोच्यतां तन्महाप्रभो ! ॥ श्रुत्वैवं गौतमादीनां, विज्ञप्ति जगदीश्वरः । धर्मयोगरहस्यानि, प्रोवाच केवलिप्रभुः॥ ममाऽनन्यपरो भक्तो, मत्स्वरुपो न चान्यथा । मच्छूद्धाधर्मयोगेन, मुच्यते सर्वकर्मतः॥ श्रद्धायां मम वासोऽस्ति, श्रद्धावाँल्लभते शिवम् । मच्छ्रद्धाभ्रष्टजीवानां, दुर्गतिनैव संशयः॥ सर्वनामस्वरूपादियोगैः सर्वत्र सर्वथा। अर्हनामादिसच्छब्दर्भक्ता गायन्ति मां सदा ॥ साकारश्चनिराकारं, मां सर्वज्ञमुपासते । भक्ताः श्रद्धालवो मुक्तिं, प्राप्नुवन्ति न संशयः॥
८
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org