________________
इन्द्रादिस्तुतिः] मत्वाऽभेदं महावीरगीतयोर्ये पठन्ति ताम् । शुद्धात्मावं महावीरं, हृद्याविर्भावयन्ति ते॥ गृहिजैनद्विजैर्लग्नसंस्कारं प्रविधाप्य ये। जैना गृहाश्रमं धृत्वा, योग्याः स्युस्ते यथाविधि ॥ . स्वगृहे श्रीमहावीरगीतापाठाञ्छुभङ्करान् । शुभलग्नप्रसङ्ग ते, कारयेयुः सुखाप्तये ॥ श्रीमहावीरगीतायाः, श्लोकान्कण्ठे प्रकुर्वताम् । बालवृद्धयुवादीनां, कार्य सन्मानपूजनम् ॥ व्यावहारिकविद्याभिः, सह पुत्रादिसन्ततिम् । पाठयेयुर्महावीरगीतां सर्वविद्याहताः ॥ . भरतोपज्ञवेदानां, गीतायां विनिवेशितः। सर्वसारस्ततः पूर्णश्रद्धया तां पठेजनः ॥ . सर्वत्र शुभकार्येषु, वीरगीताप्रवाचनम् । श्रवणं मृत्युकाले च, स्वर्गसिद्धिप्रदं भवेत् ॥ वीरगीताप्रचारार्थ, यतन्ते विमलाशयाः। ते निजात्मानमहन्तं, महावीरं प्रकुर्वते ॥ पठन्ति वीरगीतां ये, नृपत्यमात्यसैनिकाः। तेषां राज्यमहालक्ष्मीसत्तापुत्रादिवर्द्धनम् ॥ येषु देशेषु राज्येषु, वीरगीताप्रपाठनम् । तद्देशादिकवृद्धिश्च, विभवो जायते स्थिरः ॥ नाद्यानाद्रितीर्थेषु, सभायां मन्दिरे तथा । गीतापाठकलोकानां, सिद्धिर्भवति सत्वरम् ॥ महोत्सवेषु सर्वेषु, जिनजन्मोत्सवादिषु । गीतायाः श्रवणात्पाठाच्छिवं यान्त्यखिला जनाः॥ ९३. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org