________________
-२६२
_ [इन्द्रादिस्तुतिः महावीरस्य गीतायाः, पाठकश्रोतृदेहिनाम् । प्रभावनां प्रकुर्वन्ति, ते स्युजैनोत्तमाः सदा ॥ श्रीमहावीरगीतायाः, मन्तार आस्तिका जनाः। सर्वदेवेश्वरं वीरं, ध्यात्वा यान्ति शिवं पदम् ।। सर्वसमर्पणं कृत्वा, मनोवाकायतो जनैः। महावीरस्य कर्त्तव्यं, शरणं सिद्धिदायकम् ॥ समालम्ब्य महावीरं, जैनधर्मश्च भक्तितः। महावीरस्य गीतायाः, पाठः कार्यो दिने दिने । जैनानां जैनधर्मस्य, शत्रूणां ये प्रतिक्रियाम् । कुर्वन्ति ते महाजैना, मुक्ति यान्ति न संशयः ॥ ९८ वीरगीताविरुद्धानां, खण्डनेऽस्ति महाफलम् । जैनधर्मविरुद्धानां, कुतर्काणां च खण्डने ॥ ९९ महावीरस्य विश्वासे, वादानां न प्रयोजनम् ।। महावीरस्य गीतायां, शङ्का कार्या न सजनैः ॥ १०० तर्काणां प्रतितर्काणां, वादान् सन्त्यज्य ये जनाः। महावीरञ्च तद्गीतां, श्रयन्ति ते शिवाध्वगाः॥ वेषाचारविरोधेऽपि, यतिसन्यासियोगिनः। जैनधर्माश्रिता मुक्तिं, यान्ति गीताप्रचारतः ॥ अनाद्यनन्तकालीन, आत्मवीरः सनातनः। साद्यनन्तो महावीरः, शुद्धपर्यायतो जिनः॥ अनाद्यनन्तकालीनो, जैनधर्मः सनातनः। अनाद्यनन्तकालीनो, जैनसंघः सनातनः ॥ अनाद्यनन्तकालीना, महावीरस्य पर्यवाः । दर्शनज्ञानचारित्ररूपा ज्ञेयाः स्वभावतः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org