SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ २६० - ५० [ इन्द्रादिस्तुतिः नव्यान्ये जनयिष्यन्ति, सर्ववर्णसदाहतान् । अवश्यमेव ते जैनाः, स्वर्गमुक्तिसुखाश्रिताः ॥ यावज्जीवं सदा जैनैः, सर्वोपायैर्जनाः परे । जैनधर्मरताः कार्याः, प्रविधाय सहायताम् ॥ श्रीमहावीरगीतायाः, प्रचारः सुखदायकः। 'सर्वत्र प्रविधातव्यो, जैनधर्माभिवृद्धये ॥ सिद्धाचलादितीर्थेषु, गङ्गादितीरसन्निधौ । महावीरप्रभोर्यज्ञः, कर्तव्यो मन्त्रयोगतः ॥ आम्राश्वत्थमहाशालवटादीनामधस्तले।। महावीरप्रभोर्गीता, वाच्या यज्ञादिपूर्वकम् ॥ “यतिसन्यासिसाधूनां, गङ्गादितीर्थवासिनाम् ।। वीरगीतानुरक्तानां, जैनधर्मानुयायिनाम् ॥ -- भोजनादिप्रबन्धेन, भक्तिः कार्या सदाहतैः । तेषां भक्त्या भवेन्मुक्तिः, शीघ्रश्च सर्वसंपदः ॥ गीताभ्यासकसाधूनां, ब्राह्मणादिनृणां तथा। कर्त्तव्यं सेवनं भक्त्या, सर्वधर्माऽनुयायिभिः ॥ सर्वजातीयसज्जैनीरगीता स्वसद्मनि । विद्भिजैनधर्मज्ञैर्वाचनीया शिवप्रदा ॥ स्वगृहे जैनगीतायाः, पाठानष्टोत्तरं शतम् । विधापयन्ति ये जैनब्राह्मणद्वारयाऽऽर्हताः ॥ सज्जैना वित्तपुत्रादिसत्तया परिभूषिताः । देवलोकं समासाद्य, मोक्षसिद्धिं प्रयान्ति ते ॥ -गीतायां श्रीमहावीरप्रभाविव मुदान्विताः । श्रद्धया वर्तमानास्ते, भवन्त्यहत्प्रभोः समाः ॥ ८१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy