SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १६० [चतुर्दशाध्याये आपद्धर्माऽनुसारेण, जैनधर्मप्रवर्तकाः । धर्माचार्याः सदा सेव्याः, कलौ जैनः सुभक्तितः॥ ३६ अनाद्यनन्तकालीनो, जैनधर्मः सनातनः । रक्ष्यते साधुभिः सम्यग्विश्वकल्याणकारकः ॥ गुरुजिनेन्द्रयोरैक्यं, परब्रह्मस्वभावतः । यः पश्यति जनो भक्त्या, स याति परमां गतिम् ॥ ३८ जनानां योग्यतां ज्ञात्वा, ज्ञानिभिरुपदेशतः। बोधितव्या मनुष्याश्च, पातितव्या न संशये ॥ आत्मज्ञानोपदेशस्तु, श्रोतव्यः श्रीगुरोर्मुखात् । गुरुभक्तिबलेनैव, हृदि ज्ञानं स्थिरं भवेत् ।। फलं यजायते नृणां, शास्त्राणां वाचनात्स्वयम् । ततोऽनन्तगुणो लाभः, श्रवणात्सद्गुरोर्मुखात् ॥ श्रुतज्ञानश्रुतेर्योगात्, सम्यक्त्वं हृदि जायते । चारित्रादिगुणाः सर्वे, व्यक्ता भवन्ति वेगतः ॥ सद्गुरूणां वियोगे तु, शास्त्राणां वाचनं शुभम् । गुर्वाज्ञापूर्वकं कार्य, मजनैः स्वाऽधिकारतः॥ श्रुतज्ञानश्रुतिः कार्या, मजनैर्विधिपूर्वकम् । मन्मुखान्निर्गता बोधाः, श्रुतय एव सर्वदा ॥ कार्यकोटि परित्यज्य, तत्त्वज्ञानं गुरोमुखात् । श्रोतव्यं हृदि संधार्य, न स्थेयं तदिना कदा ॥ गुरुपरम्पराप्राप्ता, श्रुतज्ञानपरम्परा ।। वीति जैनधर्मस्य, द्योतिका पश्चमारके ॥ आत्मज्ञानं भवेन्नैव, सद्गुरोरपवादिनाम् । भ्रमन्ति भूतवल्लोकाः, सद्गुरोः शापयोगतः॥ ४७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy