________________
गुरुभक्तियोगः ] सर्वदुःखविनाशाय, सद्गुर्वालम्बनं महत् । गुर्वन्तेवासिनः शिष्याः, सद्गुरुज्ञानवेदिनः ॥ गुरोर्हदि प्रविष्टानां, शिष्याणां कर्मयोगिनाम् । इष्टकर्माणि सिद्धन्ति, कष्टसाध्यान्यपि क्षणात् ॥ मन्त्रतन्त्रैश्च किं यन्त्रैः, सदगुरोः कृपया विना। गुरुकृपायुते शिष्ये, वसन्ति सर्वसिद्धयः ॥ मत्कृपाप्राप्तये शिष्या, गुरुभक्तिपरायणाः। भवन्ति सर्वजातीयसेवाकारककर्मभिः ॥ गुरोः कृपा महाशक्तिर्गुरोः कृपा महाप्रभुः । गुरोः कृपां विना शिष्या, नाऽन्यदिच्छन्ति भूतले ॥ २८ गुर्वाशीर्वादतो यन्न, सिद्धयति तन्न भूतले । गुर्वाशिषा प्रजायेत, ब्रह्मज्ञानं मनीषिणाम् ।। गुर्वात्मरूपभूतानां, हृदि सिद्धिः प्रजायते । आत्मैव परमात्माऽस्ति, सद्गुरुः स्व-स्वभावतः ॥ सत्यज्ञानं न जायेत, सद्गुरोर्भक्तिमन्तरा। कृतं नैव गुरोरैक्यं, ते शिष्या नाममात्रतः ॥ व्रताद्याः पालिताः पूर्णा, गुर्वाज्ञापालने कृते । गुर्वाज्ञामूर्तिरूपाणां, कर्तव्यं नावशिष्यते ॥ गुर्वाचारविचाराणां, पूर्णब्रद्धाविधायकाः। आपत्स्वपि महाधीराः, प्रान्ते यान्ति परं पदम् ॥ सर्व प्राणादिकं त्यक्त्वा, सदगुर्वात्मावलम्बकाः । नामरूपादिमोहस्य, त्यागाद्यान्ति शिवं पदम् ॥ पूर्णप्रीया गुरोः सेवाकारका मन्जनाः कलौ । सर्वदोषविनिर्मुक्ता, भवन्ति निर्मलाशयाः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org