SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ [ चतुर्दशाध्याये " १५ विद्याव्रततपोभिः किं किञ्च बाह्यविभूतिभिः । विना गुरुकृपां व्यर्थमायुष्यं सर्वदेहिनाम् ॥ गुर्वाज्ञायां दयामुख्याः, सर्वधर्माः प्रतिष्ठिताः । गुरोः कृपैव सर्वत्र, भक्तानां रक्षणे क्षमा ॥ गुरोः कृपाशिवा शिष्याः, सर्वत्र जयकारिणः । यस्योपरि गुरुप्रीतिस्तस्य सिद्धिः करस्थिता ॥ गुरोः कृपाशिषा नृणां मनः स्थैर्य प्रजायते । अन्यथा चित्तचाञ्चल्यादात्मस्थैर्य न संभवेत् ॥ मोक्षस्य गुप्तमार्गां ये, स्वात्मोत्कान्तिविधायकाः । दश्यन्ते गुरुणा सर्वे, शिष्याणां योग्यताबलात् ॥ आत्मशुद्धिप्रदा मार्गा, मत्परम्परयागतैः । गुप्ताः सूर्यादिभिर्व्यक्ताः क्रियन्तेऽग्रे विवेकिनाम् ॥ १६ कर्मसंस्कारविक्षेपनाशाय गुप्तयुक्तयः । गुर्वात्मीभूतसच्छिष्यैः प्राप्यन्ते पूर्णयोगतः ॥ आत्मज्ञानादिलाभाय, योग्यता यस्य जायते । यदा तदा गुरोर्लाभस्तादृक् तस्य प्रजायते ॥ गुर्वाज्ञातो महाशिष्याः, सर्वस्वार्पणकारकाः । सिद्धबुद्धाः प्रजायन्ते, विश्वोद्धारकयोगिनः ॥ गुरुं विना न मत्प्राप्तिर्मदुक्तं नाऽन्यथा कहा । यस्योपरि गुरोः कोपस्तस्य पातः पुनः पुनः ॥ सर्वाध्यात्मिकशक्तीनां निदानं सद्गुरोः कृपा । अनेकजन्मसेवातो, गुरोः शिष्यः शिवं व्रजेत् ॥ गुर्वाज्ञायां मदाज्ञायाः, समावेशो भवेदतः । मदाज्ञा खण्डिताः सर्वाः खण्डिते गुरुशासने || गुर्वायत्त महासत्त्वा, मातृभक्तिपरायणाः । धर्मिद्रोह विनिर्मुक्ता, अशक्यं कर्तुमीश्वराः ॥ १५८ Jain Education International , , For Private & Personal Use Only ११ १२ १३ १४ १७ १८ १९ २० २१ २२ २३ www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy