________________
चतुर्दशाऽध्याये गुरुभक्तियोगः सर्वथा सर्वदाऽऽराध्या, सद्गुरुर्धर्मबोधकः । मत्पश्चान्मत्समाः पूज्या, जैनधर्मप्रवर्तकाः॥ पूर्णप्रीत्या गुरोर्भक्तिः, सर्वकल्याणकारिका। अप्रकाशिततत्त्वानां ज्ञानं भक्त्या प्रजायते ॥ गुरुभक्तिस्तु मे भक्तिः, सर्वशक्तिप्रदायिका । अनन्यगुरुसेवायां, यन्नास्ति तन्न भूतले ॥ गुरोहृद्यस्ति महासा, शिष्याणां भक्तिवर्द्धकः । गुरुः पूर्णाशिषाऽनन्यभक्तानां शर्मकारकः ॥ गुर्वात्मा मत्समः प्रोक्तः, शिष्याणामिष्टकारकः । गुर्वात्मैव परब्रह्म, सत्ताव्यक्तिप्रभावतः॥ सर्वदा सर्वथा भक्तिगुरोः स्वार्पणकारिका। शिष्यभक्तैर्विधातव्या, कृपामूला विवेकिभिः ॥ गुरोः कृपां विना सिद्धिर्जायते नैव सर्वथा । गुरोः कृपां विना कोऽपि, मत्पदं याति नो कदा ॥ गुरोः कृपां विना कोऽपि, प्राप्नोति नैव मत्कृपाम् । सद्गुरोः कृपया धर्म, प्राप्नोति मत्पदं जनः॥ गुरुकृपाविहीनानां, सद्गतिनास्ति सर्वथा । पूर्णप्रीत्यैव शिष्याणां, भवत्येव गुरोः कृपा ॥ गुरुभक्तिविहीनानां, देवभक्तिर्न सिद्धयति । गुरुस्वार्पणभक्ताः स्युः, सद्गुरुमधारकाः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org