________________
सत्संगयोगः ] मजनैः सर्वथा कार्या, सतां सेवा स्वभावतः । साधूनां सत्यसेवातो, दुर्लभं सुलभं भवेत् ॥ साकारो भगवाज्ञेयो, मुनिर्धर्मपरायणः । महत्पूर्णतया पूज्यः, सेव्यस्तद्योग्यसाधनैः॥ निश्चयात्पूर्णशुद्धात्मा, देहस्थोऽपि स्वयं प्रभुः । ज्ञेयो ध्येयो महाप्रीत्या, गेयः श्राव्यो जनैर्महान् ॥ ७३ आत्मा सद्भिः सदा ध्येयः, सत्ताव्यक्तिस्वभाववान् । अनन्ताऽनन्तपर्यायैरनेकाकृतिनामवान् ॥ . ७४ भङ्गीभिर्नयनिक्षेपैः, सविकल्पैः सदात्मनः । निर्विकल्पस्वरूपं तु, प्राप्यते ज्ञानयोगिभिः ॥ ज्ञात्वैवं निर्विकल्पात्मस्वरूपाउनुभवाय ते । निर्विकल्पात्मरूपेण, भवन्ति निर्विकल्पकाः ॥ यस्य पारं न संयान्ति, वेदागमनया अपि । तस्य पारं द्रुतं यान्ति, सन्तो निवृत्तियोगतः ॥ यत्र तत्र सतां हृत्सु, व्यक्तरूपो यदा तदा । शुद्धब्रह्मस्वरूपेण, संभवामीति निश्चयः ॥ सविकल्पस्वरूपेण, सविकल्पः सतां हृदि। निर्विकल्पस्वरूपेण, निर्विकल्पः सतां हृदि ॥ औपशमादिसद्भावैरभिव्यक्तोऽस्मि शक्तिमान् । अतः सन्तः सदा पूज्याः, साकारेश्वरयोगिनः॥ देहस्था अपि वैदेहा, गृहस्थास्त्यागिनो जनाः। जीवन्मुक्ता महासन्तः, परब्रह्माऽवतारिणः॥ गोप्याऽगोप्यस्वरूपेण, सर्वे धर्माः सतां हृदि । स्वव्यक्तितो भविष्यन्ति, भूताश्च वार्त्तमानिकाः ॥ ८२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org