________________
-
[ त्रयोदशाध्याये आत्मवत्सर्वजीवानां, द्रष्टारो जैनसाधवः । भविष्यन्ति कलौ दुष्टधर्मनाशाय योगिनः ॥ सत्यार्यजैनधर्मस्य, प्रचाराय स्वशक्तितः । मदुक्तसर्वदेशेषु, भविष्यन्ति न संशयः ॥ आत्मनः शुद्धपर्यायप्राप्त्यर्थ मन्जनैः सदा। सर्वसात्त्विकसाधूनां, संगः कार्योऽतियत्नतः ॥ स्थातव्यं न कदा भव्यैज्ञानिनां संगति विना । तुच्छं धनादिकं मत्वा, सन्तः सेव्याः क्षणे क्षणे ॥ ६२ अन्तःशुद्धोपयोगेन, परब्रह्मस्वरूपिणाम् । सतां दर्शनमात्रेण, तमो दूरं पलायते ॥ स्वप्नोपमाञ्जगद्भावाज्ञात्वा सर्वमहाजनैः । परात्मा ज्योतिषां ज्योतिः, संप्राप्यो देहसंस्थितः ॥ ६४ यावदायुःक्षयो नास्ति, तावबैराग्यबोधतः। मोहस्य सर्वथा नाशः, कार्यः सद्भिर्विवेकिभिः ॥ शाश्वतो विभवो नैव, विशुद्धञ्चञ्चलं वपुः। प्राणायुः क्षणिकं ज्ञात्वा, धर्म कुरुत साधवः ॥ इष्टानां सर्ववस्तूनां, संयोगस्य वियोगता। भवत्येव स्वभावेन, ज्ञात्वा ज्ञानी न मुह्यति ॥ अनिष्टानां पदार्थानां, संयोगः पापतो भवेत् । ज्ञात्वैवं सर्वथा ज्ञानी, तत्र किश्चिन्न मुह्यति ।। रागद्वेषमयं चित्तं, कर्मबीजमनादितः। चित्तशुद्धिं करोत्येव, ज्ञानी शुद्धोपयोगतः ॥ सन्तः शान्तिकरा नित्यं, ज्ञानवैराग्यधारिणः । अनन्तसुखसम्पन्ना, विश्वोद्वारपरायणाः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org