________________
सत्संगयोगः ]
श
अन्नवस्त्रादिभिस्तेषां वैयावृत्त्यं विशेषतः । कर्त्तव्यं गृहिभिर्धर्मलाभाय पूर्णभावतः * तेषां यात्रा प्रकर्त्तव्या पर्वसु तु विशेषतः । संमान्या मत्समाः सन्तो, जापकाः परमेष्ठिनाम् ॥ तेषां वेषक्रियाभेदैर्बाह्यभेदा अनेकधा । तत्र मोहो न कर्त्तव्यो मद्भक्तेषु तपस्विषु ॥ केचिच्छ्वेताम्बराः सन्तो, वीतरागतपस्विनः । केचिद्दिगम्बराः सन्तो, यदृच्छाव्रतधारिणः ॥ भिन्नभिन्नविचारैस्तैस्तथाचारैर्जिनेश्वरम् । संप्राप्तुं निश्चयेनैकमर्हन्तं समुपाश्रिताः ॥ भिन्नभिन्नाऽधिकारात्ते, विभिन्ना बाह्य भेदतः । तथापि शुद्धमात्मानं, मां सेवन्ते स्वभावतः ॥ अतः स्वभावादैक्यस्य, धारका मयि धर्मतः । मोक्षं याताश्च यास्यन्ति, यान्ति शुद्धात्मलाभतः ॥ शुद्ध ब्रह्मस्वरूपं मे, कर्मातीतं निरञ्जनम् । ध्यायमाना महासन्तो, मदभिन्ना भवन्ति ते ॥ अध्यात्मज्ञानिनः सन्तो, निर्मुक्ता गृहकर्मतः । सन्ति धर्मस्थानेषु, सात्त्विकान्नप्रभोजिनः ॥ ज्ञानं संजायते सत्त्वाद, गृहित्यागिसतां खलु । रजस्तमोविनाशेन, सत्त्वं तत्त्वं प्रकाशते ॥
बुद्धिशुद्धिकरं सत्वं ज्ञानप्राकट्यकारणम् । चित्तशुद्धिकरं यच्च, रजस्तमोनिवर्त्तकम् ॥ सात्त्विका चारयुक्तास्ते, आत्मज्ञानोपदेशिनः । आर्यावर्त्तस्य खण्डेषु, भविष्यन्ति सुसाधवः ॥
१२
Jain Education International
For Private & Personal Use Only
१५३.
४७
४८.
४९.
५०.
५१.
५२.
५३.
५४
५५.
५६
५७
५८.
www.jainelibrary.org