________________
१५२
[त्रयोदशाध्याये धर्मग्लानिनिवृत्त्यर्थ, सन्तः सर्वे स्वशक्तितः । आचार्याज्ञाऽनुसारेण, वर्त्तन्ते यत्र तत्र गाः ॥ ब्राह्मीलिपीगतान् ग्रन्थानुरिष्यन्ति यत्नतः । मत्प्रोक्तजैनधर्मस्य, प्रचाराय भुवस्तले ।। केचित्तु निर्जनेऽरण्ये, केचिद्ग्रामादिवासिनः । मां जैनेन्द्रं समाश्रिल, ध्यानं कुर्वन्ति योगिनः॥ भिन्नभिन्नतपोनिष्ठाः, शुद्धात्मानं विवेकतः । ध्यायमाना महोद्याननदीतीरनिवासिनः ॥ स्वस्ववृत्त्यनुसारेण, भ्रमन्ति ज्ञानयोगिनः । अध्यात्मज्ञानयोगेन, सर्वथा मयि तत्पराः ॥ समाध्यर्थ यमाद्यङ्गच्छन्ति यत्र तत्र ते । ममाज्ञास्वधितिष्ठन्ति, स्वतन्त्राः सर्वकर्मसु ॥ - मायोपममिदं दृश्यं, सर्व संमान्य चेतसि । आत्मानन्दमयाः सन्तो, बाह्यानन्दपराङ्मुखाः ॥ केचिदत्यन्तनिवृत्ता, मयि लीनाः परेश्वरे । वर्त्तन्ते मूढवद्वायव्यवहारेषु योगिनः॥ विकला इव सन्तस्तु, सेव्याः सर्वोपचारतः । केषाश्चिदब्रह्मलीनानां, वैकल्यं बाह्यतो भवेत् ॥ परब्रह्मस्वरूपास्ते, दृश्यन्ते विकला इव । देहादिबाह्यचेष्टास्तु, तेषां प्रारब्धकर्मतः॥ . वेषाचारस्य नैयत्यं, नैव तेषां कदाचन । आत्मज्ञानसमाधिस्थाः, परोपकारतत्पराः॥ अर्हज्जैनेन्द्रभक्तास्ते, वीतरागदशाश्रिताः। विश्वशान्तिकरा भूता, भविष्यन्ति च ते कलौ ॥ ४५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org