________________
सत्संगयोगः ] मंत्रयोगपराः केचित्समाधियोगतत्पराः। शास्त्राऽभ्यासरताः केचिजिनधर्मप्रचारकाः ॥ मौनाः केचित्तु वक्तारः, सद्विद्यादिप्रवर्तकाः । कलौ स्वाऽर्पणयोगेन, जनसंख्याविवर्द्वकाः ॥ सेवाधर्मरताः केचिद् , बहिरुद्यानवासिनः । मत्पराः सर्वजीवेषु, मदीयभावदर्शिनः ॥ तीर्थयात्रापराः केचिद्विविधज्ञानधारिणः । कल्पातीता महासन्तः, सर्वविश्वोपकारिणः ॥ दिवारात्रौ जिनाज्ञातो, जैनधर्मोपदेशिनः । दिवारात्रौ विहारेण, परमार्थपरायणाः ॥ सदाचाररता नित्यं, भावशौचादिकारकाः । गोचर्यादिव्रताः केचिद्भक्तसद्मनि भोजिनः ॥ नगरस्थायिनः केचिद्धर्मव्याख्यानकारकाः। तडागादिनिवासेषु, तपस्यन्ति मदाश्रिताः ॥ गुहानिवासिनः सन्तः, केचिद्धेमाद्रिवासिनः । नदीवृक्षाश्रयाः केचिदन्यपर्वतवासिनः ॥ श्वेतद्वीपगताः केचिद्धिमोत्तरनिवासिनः । वत्स्यन्ति च कलौ तत्र, गुप्तरूपेण योगिनः॥ . मध्यखण्डगताः केचित्सागरद्वीपसंस्थिताः । पूर्वपश्चिमदेशस्थास्तथा दक्षिणवासिनः॥ आपत्कालेषु जैनानां, कलौ गुप्ता निजात्मनाम् । प्रादुर्भावं करिष्यन्ति, मन्तो धर्मप्रभावकाः॥ सिद्धाचलादितीर्थेषु, वासिनामात्मरक्षणे । आचार्याः स्वाऽधिकारेण, तत्पराः संघशत्तितः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org