________________
[त्रयोदशाध्याये यादृशास्तादृशाः सन्तः, पूर्णरागेण सेविताः। महन्मुक्तिप्रदाः शीघ्रं, जायन्ते नैव संशयः ॥ मन्नामजापकर्तृणां, दर्शनाद्रोमराजयः । यस्य विकखरास्तूर्ण, जायन्ते स मम प्रियः ॥ जैनान् दृष्ट्वा महाप्रेमा, भवेद्यस्तद्वदि स्फुटम् । व्यक्तो भवामि स्वप्नादौ, बाह्यान्तरस्वरूपतः ॥ साधूनां हृदि संरागाये जैनाः शोधयन्ति माम् । तद्धदि व्यक्तरूपोऽहं, भवाम्येव न संशयः ॥ साधुन्संप्रेक्ष्य ये जैनाः, पूर्णानन्दा भवन्ति ते। तद्भवे मां प्रभुं प्राप्य, जायन्ते ज्ञानयोगिनः ॥ आत्मदेहे तथा देवे, गुरौ संघे च रागवान् । भवेत्तस्य धृतिः कीर्तिबुद्धिलक्ष्म्यादिसम्पदः ॥ .. १६ साधूनां पूर्णरागी यो, यत्किश्चित्स्वार्थमन्तरा। तस्य साहाय्यकर्ताऽहं, यत्र तत्र यदा तदा ॥ कुतर्ये महापापा, मिथ्यात्वदोषयुक्तिभिः । कलिधर्माऽनुगन्तृणां, साधूनां नाशकारकाः ॥ अदृश्यवदना ज्ञेया, नास्तिका मद्विरोधिनः । तत्पतिरोधकानां स्यान्मत्पदं साधुरागिणाम् ॥ नव्यशास्त्रकराः केचिज्जैनधर्मविवृद्धये । कलिधर्माऽनुसारेण, नव्यज्ञानप्रकाशकाः ॥ समुद्रोल्लंघनेनैव, दीपादवीपविहारिणः । विद्यामंत्रप्रभावेण, केचिद्विश्वोपदेशकाः ॥ एकस्थानगताः केचिदनेकस्थानगामिनः। प्रवृत्तियोगिनः केचिद्धर्म्यकर्मविधायिनः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org