________________
त्रयोदशाऽध्याये सत्संगयोगः
अनेकभवसंबद्धकर्माणि साधुसंगतेः । क्षणार्धेन क्षयं यान्ति, परमाञ्च गतिं जनाः ॥ सतां सेवा जनैः कार्या, त्यक्त्वाऽन्यकार्यसंहतिम् । प्रष्टव्यमात्मबोधाय, श्रोतव्यश्च यथायथम् ॥ साधुनां संगतिः पुण्यस्वर्गसिद्धिप्रदायिनी । अध्यात्मज्ञानसंवार्त्ताऽमृतं पेयं सुरागतः ॥ ज्ञानिसमागमप्राप्तौ प्रभुप्राप्तिर्न संशयः । गुरुरेव प्रभुः साक्षाद्देहस्थो ब्रह्मदर्शनात् ॥ सन्त्यज्य सर्वकार्याणि, सद्गुरूणां समागमः । अहर्निशं प्रकर्त्तव्य, आत्मज्ञानाप्तये जनैः ॥ आत्मज्ञानस्य संवार्त्ता, जायते यत्र तत्र तु । विहाय शतकर्माणि, स्थातव्यं श्रोतुमिच्छुभिः ॥ रागद्वेषपरीणामः क्षीयते यस्य संगतेः । पूर्णानन्दरसास्वादो, जायते च मनीषिणाम् ॥ कर्त्तव्या तस्य संसेवा, सर्वस्वार्पणभावतः । साक्षात्साकारदेवः स, मतव्यः पूर्णरागतः ॥ त्यागिनां योगिनां सङ्गः कर्त्तव्य आत्मशुद्धये । अहंममत्वनाशाय, भूयादेव न संशयः ॥ साधूनां पूर्णरागेण, कलौ मुक्तिर्वदाम्यहम् | वैयावृत्येन साधुनां साध्वीनाञ्च शिवं भवेत् ॥
Jain Education International
"
For Private & Personal Use Only
१
३"
६
ራ
१०
www.jainelibrary.org