________________
त्यागयोगः ] मन्मन्त्रैर्हठयोगैश्च, स्वात्मशक्तिप्रकाशकम् । संपायं सहलं जैनधर्मोद्योताय साधुभिः॥ सूरिमंत्रादिमंत्राणां, साधना सूरिभिः सदा । कर्तव्या साधुसंघस्य, रक्षार्थ वीर्यवर्धिका ॥ क्षेत्रकालाऽनुसारेण, योग्यः सत्परिवर्त्तनैः। चतुर्विधस्य संघस्य, वृद्धौ धर्मः प्रकीर्तितः ॥ मनोवाकाययोगानां, पूर्णशक्तिप्रकाशकः । बाह्यसत्तादिसाम्राज्यरक्षको धर्म उच्यते ॥ बाह्यधर्मप्रभावेण, स्वात्मधर्मः प्रकाशते । अतो धर्मः सदा साध्या, सूरिवाचकसाधुभिः॥ ७५ यस्मिन्क्षेत्रे च यत्काले, यदुपायैः प्रवर्द्धते । जीवति त्यागिवर्गः स, धर्मो नाऽन्यो विनाशकः ॥ ७६ त्यागिवर्गोन्नतिः साध्या, सर्वधर्मस्य पुष्टिदा । यत्र त्यागो जयस्तत्र, त्यागो धर्मार्थपोषकः ।। त्यागिनां द्रोहिणो मूढा, यान्ति नैव समाधिताम् । यत्र त्यागः प्रभुत्तत्र, त्यागिनो मे सदा प्रियाः॥ ७८ सर्वविश्वस्य कल्याणकारकस्त्यागिनः सदा । चक्रवादितः श्रेष्ठाः, परोपकृतिमूर्तयः॥ त्यागिनामपमानं ये, कुर्वन्ति ते नराऽधमाः। विश्वदेशसमाजानां, नाशका धर्मलोपकाः ॥ जीवन्तस्त्यागिनो बोध्या, व्यक्तयो ब्रह्मणः पराः। धमाद्धाराय साधूनामवताराश्व मत्समाः ॥ ८१ त्यागिनां संकटे व्याधी, चिन्तायां च विशेषतः । सहायकः परब्रह्मपदं याति खभक्तितः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org