________________
१४६
देशकालव्यवस्थाभिर्योग्यं यत्परिवर्त्तनम् । देशे संघे समाजेषु, तत्कर्त्तव्यं व्यवस्थया ॥ वेषाचारवतादीनां, नैयत्यं नैव सर्वथा । करोति रोचते यत्तत्त्यागी स्वात्मादिवेदकः ॥ धर्मराज्यस्य शास्तारो, धर्माचार्या विवेकिनः । क्रियावन्तोऽप्यकर्माणः, परब्रह्मणि संस्थिताः ॥ परब्रह्मस्वरूपं मां, ध्यायन्ति सूरयः सदा । योगाभ्यासेन मां दृष्ट्वा, कारका धर्म्यकर्मणाम् ॥ जैना ये श्रद्धया युक्ता, मत्प्रतीकेषु सूरिषु । जैनोन्नति प्रकुर्वन्ति, गुर्वाज्ञाधर्मधारकाः ॥ विश्वोद्धाराय जैनानां, साधूनाञ्च प्रणालिका । तीर्थकृद्भिर्व्यवस्थाभिः, स्थापिताऽनादिकालतः ॥ मयाऽपि स्थापिता सैवं विश्वकल्याणहेतवे । मुक्तिमार्गैरसंख्यातैर्धमद्वारः कृतो मया ॥ विश्वदेशसमाजानां, व्यवस्था धर्मकर्मभिः । चतुर्विधेन सङ्केन, सुखायैव प्रचारिता || स्वातन्त्र्यं सर्वलोकानां सुखारोग्यप्रदं यतः । धर्मः सामाजिको दिष्टः, स मया विश्वतायिना ॥ साधुभिः सर्वजातीयाः, सद्धर्मा व्यवहारतः । विवेकेनाऽभिधीयन्ते, सन्तः कल्याणकारकाः ॥ शुद्धान्नपानवसनैः, पोषयन्ति निजं वपुः । संगिनः सर्वलोकानां निःसङ्गाः स्युस्तथापि ते ॥ जैनधर्मोन्नतिस्तैस्तु, पञ्चमारे भविष्यति । सर्वज्ञेन मयोक्तं यन्नाऽन्यथा भवति क्वचित् ॥
Jain Education International
,
[ द्वादशाऽध्याये
For Private & Personal Use Only
५९
६०
६१
६२
६३
५४
६५
६६
६७
६८
६९
७०
www.jainelibrary.org