________________
त्यागयोगः ] पुण्यानुबन्धिपुण्याय, रागादीनां समुद्भवः । ज्ञातव्यस्त्यागिवर्गस्य, धर्मार्थ हि सतां शुभः ॥ देशकालाऽनुसारेण, यद्यत्कुर्वन्ति साधवः । तत्तद्योग्यं प्रबोद्धव्यं, सूरीणामाज्ञया भुवि ॥ अनेकोपायसद्योगै नसाम्राज्ययोगिनः । अवन्ति साधवो धर्म, राज्यनीतिप्रयुक्तिवत् ॥ सूरीणामधिकारोऽस्ति, धर्मार्थ सर्वकर्मसु । तेषां नैव निषेधोऽस्ति, स्वतन्त्रा धर्मचालकाः ॥ प्रवृत्तिञ्च निषेधं ते, जानन्ति सर्वबोधतः । सत्प्रवृत्ती निषेधे च, शासकाः प्रेरकाः खयम् ॥ जैनधमप्रवृद्धयर्थ, योग्याऽयोग्येषु कर्मसु । ज्ञानिनः सूरयः श्रेष्ठाः, स्वतन्त्राः सन्ति राजवत् ॥ ५२ सर्ववर्णेषु मद्धर्मप्रचारकप्रवृत्तिषु । बालैः शङ्का न कर्त्तव्या, यतस्ते ज्ञानिसूरयः ॥ सर्वखण्डेषु मद्धर्मप्रचाराय प्रवर्तकाः। सुधारयन्ति ते यद्यत्तत्तद्योग्यं मया मतम् ॥ यस्य संघे महारागो, जैनधर्माऽभिमानता । नास्ति स जैनधर्मस्थ, बाधकश्च प्रणाशकः ॥ जैनसंघो महातीर्थ, सर्वतीर्थशिरोमणिः । तत्संघस्य प्रगत्यर्थ, प्राणार्पणं शुभावहम् ॥ साधुसंधैः प्रगत्यर्थ, यद्यत्कर्म विधीयते । तत्र निष्कामता बोध्या, धर्मार्थ नैव दोषता ॥ साधुसंघप्रगत्यर्थ, देशकालव्यवस्थया। संस्काराः शक्तितः कार्या, जैनाचार्यविचक्षणैः ॥ ५८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org