________________
१४४
[द्वादशाऽध्याये आशीर्वादेन साधूनां, गृहस्थानां विभूतयः । साधूनामपमानेन, कुलादिसंक्षयो भवेत् ॥ जैनशासनवृद्धयर्थ, साधवः कर्मयोगिनः । योग्यकर्माणि कुर्वन्ति, मन्त्रतन्त्रप्रयुक्तिभिः ॥ कुर्वन्तो धर्यकर्माणि, निर्लेपा भोग्यवस्तुषु । मद्धर्मस्य प्रचारार्थे, सर्वशक्तिसमर्पकाः ॥ जैनाचार्यो गुरुः श्रेष्ठो, गृहस्थगुरुतोऽधिकः । चतुर्विधस्य संघस्य, शासको मत्पदाश्रितः॥ जैनसंघप्रगत्यर्थ, विद्यादीनां प्रचारकाः । धर्माचार्याः सदा पूज्या, आराध्या मदभेदतः॥ आचार्या वाचकाः सन्तः, सरिमन्त्रादिसाधकाः । अपवादात्कलौ धर्मकर्मणां कारकाः शुभाः ॥ .. ४० कलौ मूरिवरादीनां, द्रष्टव्या नैव हीनता। मत्तो न्योन्यं न मन्तव्यं, तेषां धर्मप्रचारिणाम् ॥ ४१ कलौ कालप्रभावेग, गच्छादिरागधारकाः। तथाऽपि ते भविष्यन्ति, मदभिन्ना मदाश्रिताः ॥ मतादिभेदभिन्नास्ते, मत्प्रीत्या मयि संश्रिताः। प्रान्ते साम्यसमालीना, मद्ध्यानाद्यान्ति मत्पदम् ॥ ४३ अतो मतादिभिन्नेषु, सूरिषु धर्मकर्मसु । तथाऽऽचारेषु संमोहः, कर्त्तव्यो नैव मज्जनः ॥ मताचारेण भिन्नास्ते, मां स्मरन्तो मदाश्रिताः। वस्तुतो नैव भिन्नास्ते, भेदेष्वभेदवानहम् ॥ जैनसंख्याप्रवृद्धयर्थ, रक्षार्थ धर्मकर्मणाम् । उद्भवन्ति कषाया ये, प्रशस्यास्ते मताः सदा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org