________________
त्यागयोग: ] देशकालवयाशक्त्या, योग्याहाराल्पभोजिनः । धर्म्यशक्तिप्रभावेण, जैनसाम्राज्यवर्द्धकाः ॥ जैनधर्मोन्नतिर्येन, जायते तेन कर्मणा । वर्त्तन्ते साधवः सर्वे, जैनधर्माऽनुरागिणः ॥ कलौ रागेण संयुक्तो, धर्मः संयमिनां शुभः । देवगुर्वादिरागेण, युक्ता भवन्ति साधवः ॥ देवे संघे गुरौ धर्म, तथैव धर्महेतुषु । पूर्णप्रीत्या सुसाधूनां, क्रमान्मुक्तिः प्रजायते ॥ .. २६ शुद्धरागेण नैष्काम्यं, त्यागिनां जायते स्वतः । दोषा अपि गुणायन्ते, संघाय धर्मकर्मणाम् ॥ विधिनिषेधो नैकान्तः, साधूनां धर्म्यकर्मसु । दिवा निशायां व्याख्यानं, कुर्वते यत्र तत्र ते ॥ आर्याऽनार्यप्रदेशेषु, यत्र तत्र विहारिणः । मयि रागेण संलीना, योगिनोऽदद्भुतदर्शनाः॥ २९ बाह्यतः प्रतिबद्धास्तेऽप्रतिबद्धा मयि स्थिताः । विश्वकल्याणकर्त्तारो, मन्नामजापकाः सदा ॥ यादृशास्तादृशाः पूज्याः, साधवो मयि रागिणः । तेषां भक्त्या गृहस्थानामुन्नतिः सर्वथा भवेत् ॥ मत्समाः पूजनीयास्ते, मदर्थ वेषधारकाः। मदर्थ त्यागकर्त्तारो, मत्पदं यान्ति निश्चलम् ॥ दोषदृष्टया निरीक्ष्या नो, मत्प्रेमसाधवः कदा । सकामा अपि निष्कामाः, साधवो मयि रागिणः ॥ ३३ मच्छासनस्य हन्तारः, साधूनां द्रोहिणो जनाः । मत्साधूनाश्च ये भक्तास्ते मद्भक्ता विवेकिनः ॥ ३४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org